________________
हितोपदेशः । गाथा-४२८ - द्वितीयगुणव्रतस्वरूपम् ।।
३९७
वज्रकन्दाद्यनन्तकायान् । तथा उदुम्बर-वट-प्लक्ष-काकोदुम्बर-पिप्पलानां कृमिकुलाकुलानि फलानि । तथा माक्षिक - कौन्तिक - भ्रामरभेदात् त्रिविधं मधु । काष्ठ-पिष्टोद्भवं मैरेयम् ।
नन्तकायिकानि न तु कानिचिदेव १७ खरिंसुकाः - कन्दभेदाः १८ थेगोऽपि कन्दविशेष एव १९ आर्द्रा मुस्ता प्रतीता २० लवणनाम्नो वृक्षस्य छल्लिः - त्वक्, त्वगेव न त्वन्येऽवयवाः २१ खल्लूडकाः कन्दभेदाः २२ अमृतवल्ली-वल्लीविशेषः २३ ।।२३८।। ___ मूलको - लोकप्रतीत: २४ भूमिरुहाणि - छत्राकाराणि वर्षाकालभावीनि भूमिस्फोटकानीतिलोकप्रसिद्धानि २५ विरूढानि-अङ्कुरितानि द्विदलधान्यानि २६ ढक्कवास्तुल:-शाकविशेषः स च प्रथमः - प्रथमोद्गत एवानन्तकायिको भवति न पुनश्छिन्नप्ररूढः २७ शूकसञ्झितो वल्लः शूकरवल्लः स एवानन्तकायिको न तु धान्यवल्लः २८ पल्यङ्कः शाकभेदः २९ कोमलाऽऽम्लिका-अबद्धास्थिका चिञ्चिणिका ।।२३९।। __ आलुक ३१ पिण्डालुको ३२ कन्दभेदौ, एते पूर्वोक्ताः पदार्था द्वात्रिंशत्सङ्ख्या अनन्तनामभिः अनन्तकायिकसञ्झिता आर्यदेशप्रसिद्धा भवन्तीत्यर्थः । न चैतान्येवानन्तकायिकानि, किन्तु अन्यान्यपि, तथा चेह अन्यदपि पूर्वोक्तातिरिक्तमनन्तं - अनन्तकायिकं ज्ञेयं लक्षणयुक्त्यावक्ष्यमाणतद्गतलक्षणविचारणया 'समयात्' सिद्धान्तात् ।।२४०।।
तान्येव कानिचिदाह - घोसाडे'त्यादि घोषातकीकरीरयोरङ्कराः तथा अतिकोमलानि - अबद्धास्थिकानि तिन्दुकाम्रफलादीनि तथा वरुणवटनिम्बादीनां तरूणामङ्करा अनन्तकायिकाः ।।२४१।।। __ अनन्तकायपरिज्ञानार्थं लक्षणयुक्तिमाह - 'गूढसिरे 'त्यादि गूढानि-प्रकटवृत्त्या अज्ञायमानानि सिराः - सन्धयः पर्वाणि च यस्य पत्रकाण्डनालशाखादेस्तत्तथा, तथा यस्य भज्यमानस्य शाखादेस्रोट्यमानस्य पत्रादेः समः - अदन्तुरो भङ्गः-छेदो भवति तत्समभङ्गं, तथा छिद्यमानस्यैव न विद्यन्ते हीरकाः - तन्तुलक्षणा मध्ये यस्य तदहीरकं, तथा छित्त्वा गुहादावानीतं शुष्कताद्यवस्थाप्राप्तमपि जलादिसामग्री प्राप्य गडूच्यादिवत् पुनरपि यत्प्ररोहति तच्छिन्नरुहं, तदेतैर्लक्षणैः साधारणं शरीरं ज्ञेयं, अनन्तकायिकमित्यर्थः । एतल्लक्षणव्यतिरिक्तं च प्रत्येकशरीरमिति ।।२४२।।
पुनरनन्तकायिकस्य लक्षणान्तरमाह - 'चक्कं वेत्यादि चक्रमिव-अदन्तुरतया कुम्भकारचक्राकारमेकान्तेन समं भङ्गस्थानं यस्य भज्यमानस्य मूलस्कन्धत्वक्शाखापत्रपुष्पादेः भवति तं मूलादिकमनन्तजीवं विजानीहीति सम्बन्धः तथा ग्रन्थि:-पर्व सामान्यतो भङ्गस्थानं वा स यस्य चूर्णघनो भवति, कोऽर्थः ? यस्य - भज्यमानस्य ग्रन्थेः शुभ्रो घनश्चूर्णो उड्डीयमानो दृश्यते स वनस्पतिरनन्तजीवानां साधारणमेकं शरीरमित्यर्थः, कथं पुनरसौ समं भज्यत इत्यत्र दृष्टान्तमाह - पृथ्वीसदृशभेदं, अत्र पृथ्वी - केदाराद्युपरिवर्तिनी शुष्ककोप्पटिका श्लक्ष्णखटिकानिर्मितवर्तिका वा गृह्यते, यथा तस्या भज्यमानायाः समः - अदन्तुरो भेदो भवति एवं वनस्पतिरपि चक्राकारं समं यो भज्यत इति भावः ।।२४३।।
पुनर्लक्षणान्तरमनन्तकायिकस्याह - 'गूढसिरे 'त्यादि, यत्पत्रं सक्षीरं निःक्षीरं वा गूढसिराकं अलक्ष्यमाणसिराविशेष भवति, यदपि च 'प्रतापसन्धि-प्रकृष्टस्तापः - उष्मा येषु एवंविधाः सन्धयो यस्य तत्प्रतापसन्धि, ‘पणट्ठसंधि' त्ति पाठे तु प्रणष्टसन्धि सर्वथाऽनुपलक्ष्यमाणपत्रार्धद्वयसन्धि यत् अनन्तजीवंतद्विजानीहीति ।।२४४।।
__ - प्रव. सा. गा. २३६-२४४ सवृत्तिः।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org