________________
३५८ हितोपदेशः । गाथा - ३७० ३७१, ३७२ - आत्मोत्कर्षे दोषश्रेणी ।। आत्मोत्कर्षः न विधेयः ।।
शून्यमना मुकुलितचित्तचैतन्यो वैकल्यमुक्तानुश्लीला श्लीलदत्तादत्तकृतशुच्यशुचिविभागविरहितं प्राप्नोति । किं वा बहुभिरभिहितैर्यावत् क्रमेण निधनं विनाशमपि लभते । अतस्तत्त्ववृत्त्या विचार्यमाणः किलात्मोत्कर्षादपरोऽपि देहिनां क इह शत्रुः । न खलु मरणादधिकं किमपि शत्रुरपि कर्त्तुमलम् । तस्मादेवमुत्तरोत्तरदोषाश्लेषकलुषः कषणीय एव विदुषामात्मोत्कर्ष इति ।। ३६९ ।। किञ्च -
केणापि अकयपुव्वं असुयमदिट्ठे अचिंतणिज्जं च ।
जह किंपि कीरइ जए अत्तुक्करिसो वि ता होउ ।।३७० ।।
अस्मिन् जगति यदि किमप्येवं वक्ष्यमाणस्वरूपं कर्तुं पार्यते । किंविशिष्टम् ? केनाप्यमानवशक्तियुक्तेनाप्यकृतपूर्वम् । कस्मादपि देशकालविप्रकृष्टादपि अश्रुतचरम् । कस्यापि चिरजीवि - नोऽप्यदृष्टपूर्वम् । कथमपि ध्यानैकतानतयाप्यचिन्तनीयम् । यावत् कायावाङ्मनसामप्यगोचरः । तदा विधातुमनुचितोऽपि सुधियां, विधीयतां नामायमप्यात्मोत्कर्ष इति । । ३७० ।।
तथाहि - तथाहीत्यादिना पूर्वोक्तमेवार्थं समर्थयति
अमयमकंततगुणो आनंदियसयलजीवलोगस्स ।
चंदस्स जइ कलंको अवणिज्जइ होउ ता गव्वो ।। ३७१ ।।
अमृतमयीव पीयूषदलप्रकृतेव कान्ता तनुर्यस्य स तथा । तत एवानन्दितसकलजीवलोकस्य सम्प्रीणिताशेषचराचरजगज्जन्तुजातस्य एवंविधस्य चन्द्रस्य सुधादीधितेः कलङ्को लाञ्छनं स्वाभाविकेनौपाधिकेन वा महिम्ना यदि कथमप्यपनीतो भवति तदा भवतु नाम गर्वः । एतच्च मनसोऽप्यगोचरम् । शाश्वतस्वरूपत्वाच्छशलाञ्छनलाञ्छनस्य ।। ३७१ ।। तथा भूओवमद्दरहिएहिं नीइघडिएहिं निययविहवेहिं ।
मो भुवणजो रिणाउ जइ होउ ता गव्वो ।। ३७२ ।।
भूतोपमर्द्दः पराभिसन्धानादिस्तद्विरहितैरत एव नीतिघटितैर्न्यायोपार्जितैर्निजकैः स्वकीयैर्न पुनर्मलिम्लुचवृत्त्या हठाऽपहतैरेवम्भूतैर्विभवैर्भुवनजनो यदि कथञ्चिदृणान्मोच्यते तदा भवत्वहङ्कारोऽपि एतच्च दुष्करतरम् । जनपदमात्रेऽपि तथा कर्तुमशक्तेः, किं पुनर्विश्वस्मिन् विश्व इति ।। ३७२ ।। तथा
गाथा-३६९ 1. ०नुक्ताश्लीलाश्लीलदत्तादत्तकृताकृतशुच्यशुचिं इति पाठो समीचीनो भाति । - सम्पा० ।।
Jain Education International 2010_02
-
For Private & Personal Use Only
www.jainelibrary.org