SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ हितोपदेशः । गाथा-३६६, ३६७, ३६८, ३६९ - आत्मोत्कर्षे दोषश्रेणी ।। ३५७ गुणैरेव किं विधेयमिति चेत्, तदाह - गुणपरिमलपरिहीणो कुसुमं व नरो जणं न रंजेइ । जणरंजणाविहीणे न हुंति कमलाउ विउलाओ ।।३६६ ।। गुणपरिमलपरिहीनो ज्ञानादिसौरभ्यसुभगत्वशून्यो नरः परिमलविकलं प्रसूनमिव न जनरञ्जनायाऽलम् । लोकोत्तराऽभिरामगुणग्राममन्तरेण नाभिमुखयितुं शक्यो भिन्नभिन्नरुचिर्जनः । जनरञ्जनमेव क्वोपयुज्यत इति चेत् ? तदाह - जनरञ्जनाविहीने पुंसि विपुलाः स्वपरयोर्मनोरथसार्थप्रथनप्रवणाः कमलाः सम्पदो न सम्पनीपद्यन्ते 'जनानुरागप्रभवा हि सम्पदः' इति श्रुतेः ।।३६६।। श्रियमन्तरेण च यत् स्यात् तदाह - कमलाविलासरहिओ पए पए पाउणेइ अवमाणं । अवमाणपयं पत्तो पुरिसक्कारं परिचयइ ।।३६७।। कमलाविलासरहितः समृद्धिसमुदयशून्यः पदे पदे स्थाने स्थानेऽपमानं मानभ्रंशरूपं प्राप्नोति । 'दारिदसमो य परिभवो नत्थि' इति श्रुतेः । अपमानपदं च प्राप्तः सर्वथा न किञ्चिन्मयेति नैसर्गिकं पौरुषोष्माणमुज्झति ।।३६७ ।। पुरुषकारमन्तरेण च यद् भवति, तदाह - परिचत्तपुरिसयारो विहुणिजइ आवयाहिं विविहाहिं । आवयपडिओ सोयइ सोएण य होइ सुत्रमणो ।।३६८।। परित्यक्तपुरुषकारश्च विविधाभिः स्वपक्षपरपक्षोपक्षिप्ताभिर्दुदैवसङ्घटिताभिरापद्भिर्विहन्यते । अपरित्यक्तपौरुषे तु पुंसि प्रायो दैवमपि न निःशङ्कमुपढौकते । 'दिव्यो वि ताण संकइ, जाणं तेओ परिप्फुरइ' त्ति श्रुतेः । तेजोहीनश्चापत्पतितः सर्वोपायपरिक्षीणः । केवलमिदमिदं च मया न कृतमित्यनुशोचति । शोकेन चाऽऽचान्तचैतन्यः शनैः शनैः शून्यमनाः सम्पद्यते ।।३६८ ।। तद्विधश्च किमाप्नोतीत्याह - सुन्नमणो वियलत्तं पाउणइ कमेण लहइ निहणं पि । अत्तुक्करिसाओ वि हु ता को अत्रो वि इह सत्तू ।।३६९।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002567
Book TitleHitopadesh
Original Sutra AuthorN/A
AuthorPrabhanandsuri, Parmanandsuri, Kirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy