SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ ३५६ हितोपदेशः । गाथा-३६३, ३६४, ३६५ - आत्मोत्कर्षस्य जघन्यत्वम् ।। आत्मोत्कर्षे दोषश्रेणी ।। ननु क्लेशशतार्जितानां शरदिन्दुसुन्दराणां गुणानामाविर्भावायात्मोत्कर्षः क्रियते, न पुनरात्मबहुमानितयेति चेत्, तदाह - जइ संति गुणा नणु अभणियावि काहिंति अत्तउक्करिसं । __ अह ते वि न संति मुहा अत्तुक्करिसेण किं तेण ।।३६३।। गुणा हि किल ज्ञानादयस्ते च स्वावरणक्षयोपशमाद् यदि सन्ति, तदोच्चैधृतकन्धरमभणिता अपि स्वाधारभूतस्यात्मनः समुत्कर्ष करिष्यन्त्येव । कियत् किल तिष्ठति तिरोहितः स्तनयित्नुभिस्तरणिः । अथ ते गुणा एव न सन्ति तदा केवलं लघुत्वहेतुना किं तेनात्मोत्कर्षेण । गुणशून्यस्य हि गर्जितं शरद्गर्जितमिव मुधैवेति ।।३६३ ।। किञ्च - मित्ता हसंति निंदंति बंधवा गुरुजणा उविक्खंति । पियरो वि न बहुमन्नंति अप्पबहुमाणिणं पुरिसं ।।३६४।। आत्मनि धृतबहुमानं पुरुषं मित्राणि सुहृदः समक्षमसमक्षं वा हसन्ति । तथा बान्धवा अपि मानोत्तानमेनं न किञ्चिदनेनेति निन्दन्ति । गुरुजना: कौलाचार्यधर्माचार्यप्रभृतयस्तेऽप्यविनीतं नातः परमस्य भविष्यति गुणसङ्क्रमः इत्युपेक्षन्ते । किञ्चापरैः, पितरोऽपि जननीजनकाः पुरस्कृताहङ्कृतिमेनं न बहुमन्यन्त इत्यहो जघन्यत्वमात्मोत्कर्षस्य ।।३६४ ।। साम्प्रतमस्यैवोत्तरोत्तरकारणभूतामनुस्यूतां दोषश्रेणी गाथापञ्चकेनोदीरयति - अत्तुक्करिसपहाणे नरंमि न विणीयया समल्लियइ । थड्डस्स य चावस्स व न होइ गुणसंकमो कहवि ।।३६५ ।। आत्मोत्कर्षप्रधाने हि नरि तावदादावेव विनीतता न लीयते । विनयाभिमानयोस्तेजस्तिमिरयोरिवैकत्रानवस्थानात् । नतिविरहितस्य च स्तब्धस्य पुंसः शिञ्जासंयोग इव चापस्य गुणानां ज्ञानादीनां सङ्क्रमः कथमपि न भवति । 'सति ह्यहङ्कारे दूरस्थैव प्रायः प्राणिनां गुणश्रेणिः' उक्तं च - अहङ्कारे स्फुरत्येवं, वदत्येषा गुणावली । अहंकारे ! भविष्यामि समायाता तवान्तिकम् ।।१।। ] इति ।।३६५।। JainEducation International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002567
Book TitleHitopadesh
Original Sutra AuthorN/A
AuthorPrabhanandsuri, Parmanandsuri, Kirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy