________________
हितोपदेशः ।गाथा-३६१-६२- उत्तमगुणसङ्ग्रहाख्येद्वितीयेमूलद्वारेनवमं आत्मोत्कर्षपरिहारप्रतिद्वारम् ।। ३५५
मयन्तः, तस्माद् विमोक्तव्यान्येवामूनि विरुद्धानीति । यतः देशस्य कालस्य तथा नृपस्य लोकस्य धर्मस्य विरुद्धमेवं गुरूपदेशात् सुधियस्त्यजन्तस्त्यजन्ति सर्वव्यसनानि दूरम् ।। किञ्च -
प्रबलबलखलोक्तिध्वंसने चेन्मनीषा, मुखरयितुमशेषं चार्थवादैः सपक्षम् । कथमपि च पुमानर्थयुक्तान् विधातुम्;
परिहरत विरुद्धं तद् बुधाः पञ्चधाऽपि ।।१।। [ इति श्रीनवाङ्गवृत्तिकारसन्तानीय-श्रीरुद्रपल्लीय-श्रीमदभयदेवसूरिपट्टप्रतिष्ठित-श्रीदेवभद्रसूरिशिष्यावतंस-प्रभानन्दाचार्यसोदर्यपण्डित-श्रीपरमानन्दविरचिते हितोपदेशामृतविवरणान्ततिनि उत्तमगुणसङ्ग्रहाख्ये द्वितीये मूलद्वारे अष्टमं देशादिविरुद्धपरिहारप्रतिद्वारं समाप्तमिति ।। भद्रम् ।।३६० ।। श्रीः । उक्तं देशादिविरुद्धपरिहारद्वारं, साम्प्रतमात्मोत्कर्षत्यागद्वारं प्रस्तावयन्नाह -
दाणाईण गुणे कहकहिव हु पुनपुंजसंघडिए । अत्तुकरिसेण नरो हारेइ खणेण नणु तम्हा ।।३६१।। विणयवणधूमकेउं वसणगणागमणविउलतरसेउं ।
दुग्गइपहपाहेयं अत्तुकरिसं चयह एयं ।।३६२।। तस्मादेवमवबुद्ध्यैतमात्मोत्कर्षं त्यजत । यस्मादनेन नरः कथमप्यगण्यपुण्यपुञ्जसङ्घटितानपि पूर्वोदितान् दानादिगुणांस्त्वरितं हारयति । सतोऽप्यसत्प्रायान् विधत्ते । किंविशिष्टम् आत्मोत्कर्षम् ? विनयः पूर्वोदितस्वरूपः । स एव ज्ञानादिपादपपेशलत्वेन वनमिव वनं । तस्य धूमकेतुमिव ज्वलनमिव, यथा हि धूमध्वजः प्राप्तप्रसरः क्षणेन महदपि वनं विनाशयत्येवमात्मोत्कर्षोऽपि विनयम् । कूटाभिमानरूपत्वादात्मोत्कर्षस्य । विनयस्य च मार्दवरूपत्वात् । पुनः किम्भूतम् ? । व्यसनान्यहङ्कारसमुत्थानि वक्ष्यमाणानि, तेषां गणः समूहस्तदागमने विपुलतरसेतुम् । यथा हि विस्तीर्णे सेतौ सुखमध्वन्यगणः सञ्चरते, एवमहङ्कारस्फारे नरे व्यसनसमूह इति । तथा दुर्गतिः तिर्यङ्नारकादिलक्षणा तस्यां गमने पाथेयमिव पाथेयम् । तथाहि - प्रचुरपाथेयसुस्थितः पान्थः पृथुतरमपि पन्थानमुल्लन्ध्य समीहितपदं प्राप्नोत्येवमात्मोत्कर्षवानपि दुर्गतिमिति ।।३६१ ।।३६२ ।।
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org