________________
हितोपदेशः । गाथा-३७३, ३७४, ३७५ - आत्मोत्कर्षः न विधेयः ।।
३५९
गेहेसु गहिरसत्थत्थसत्थकुसलाण जइ य विउसाणं ।
आचंदं हज सिरी थिरीकया होउ ता गव्यो ।।३७३।। यदि च गम्भीरशास्त्रार्थसार्थकुशलानां विदुषां गेहेषु श्रीलक्ष्मीराचन्द्रं स्थिरीकृता भवेत् कुम्भदासीत्वमापादिता स्यात्तदा भवतु नाम स्वस्मिन्नभिमानोऽपि । 'पण्डिते निर्धनत्वम्' इत्यादि श्रुतेः चैतदपि दुर्घटमेवेति ।।३७३।। किञ्च -
तिहुयणजणमणविलसिर - मणोरहायंडखंडणुड्डमरो ।
खलिओ अकालमञ्चू जणस्स जइ होउ ता गयो ।।३७४ ।। त्रयाणां भुवनानां समाहारस्त्रिभुवनम् । तस्य जनास्त्रिभुवनजनास्तेषां मनांसि चेतांसि, तेषु विलसन्तः, स्वैरं विस्तरन्तो ये मनोरथाः । इदं कृतमिदं विधास्ये, इदमद्येदं श्वरिदं मासान्ते, इदं वत्सरान्ते, इत्यादिरूपास्तेषामकाण्डेऽप्रस्तावे यत् खण्डनं शकलीकरणं, तत्रोड्डामरो भयानको योऽसावकालमृत्युः । यद्भयात् किल विदुषामप्येवमालापाः श्रूयन्ते ।। यदुत -
अद्येदं स्वरिदं तथा परुदिदं कृत्यं परारि त्विदम् । चेतश्चिन्तयसीत्थमेव सततं निर्व्याकुलं रे ! स्फुटम् ।। तत्कालं विलसन्मनोरथलताकान्तारदावानले ।
यस्मिन् दण्डधरः स्मरिष्यति सखे ! सोऽप्यस्ति कोऽपि क्षणः ॥१॥[ ] इत्यादयः एवंविधश्चाकालमृत्युर्यदि केनापि बलेन स्खलयितुं शक्यस्तदा भवतु नाम गर्व इति । एतञ्चातुलबलानां तीर्थकृतामप्यसाध्यं, किं पुनः सामान्यमानवानामिति ।।३७४ ।। तथा
दक्खा दक्खिन्नपरा परोवयारी पियंवया सरला ।
अजरामरा य सुयणा जइ विहिया होउ ता गव्यो ।।३७५।। दक्षाः सहजनिजप्रज्ञाऽवज्ञातवाचस्पतिमतिविभवाः । दाक्षिण्यपरा: परोपरोधबन्धुरधियः । परोपकारिणोऽनुपकृता अपि प्रकृतिपरोपकृतिवत्सलमनसः । प्रियंवदाः कृतविप्रियेऽपि परे क्षीरमध्वाश्रविणः । सरला मायामिथ्यानिदानशल्यरहिताः । एवं गुणगणप्राप्तगरिमाणः स्वजनाः केनापि सिद्धरसायनादिप्रयोगेण यद्यजरामराः कल्पान्ताऽवस्थायिनः कृता भवेयुस्तदा भवतु गुणसर्वस्वसर्वकषः किलायं गर्वोऽपि । न चैतत् कस्याप्यनुभवसिद्धमतः किंमूलोऽयमलीकोऽहङ्कार इति ।।३७५।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org