________________
३६०
हितोपदेशः । गाथा-३७६, ३७७, ३७८, ३७९ - आत्मोत्कर्षः न विधेयः ।।
एतदेव निगमयन्नाह -
इयाई किंपि असरिसमपयासिय निययचरियमच्छरियं ।
जो तिणमिव नियइ जणं को अनो तिणसमो तत्तो ।।३७६।। इत्यादि पूर्वोदितमन्यदप्येवम्प्रकारं किमप्यनिर्वचनीयमसदृशमनन्यसामान्यमत एवाश्चर्यहेतुत्वात् । तदाश्चर्यमेवंविधमात्मनश्चरित्रमप्रकाश्य यः किल कूटाभिमानेन नटितः सकलमपि जनं तृणाय मन्यते । कोऽन्योऽपि तृणसमस्ततः, स एव तृणतुल्य इति भावः ।।३७६।। किञ्च -
किरिया कायकिलेसो सुयं च सीलं तवो जवो सयलं ।
विहलं इक्कपइछिय अत्तुक्करिसं वहंतस्स ।।३७७।।। क्रिया प्रत्युपेक्षणाप्रमार्जनाऽऽवश्यकविधानादिका । कायक्लेश: केशोल्लुञ्चनावीरासनातापनादिः । श्रुतमङ्गानङ्गरूपम् । शीलमिन्द्रियनिग्रहः सदाचारश्च । तपो द्वादशभेदमनशनादि । जपः पञ्चविधस्वाध्यायरूपः । तदेतदात्मोत्कर्षमावहतः सकलमेकपदे विफलमवमफलं चेति ।।३७७।।
अन्यञ्च किल यः कश्चिदात्मगुणोत्कर्षवानन्यापदेशेनापि स्वस्तुतिं विस्तारयति, तेनावश्यं परनिन्दकेन भाव्यमिति व्यञ्जयन्नाह
लोयाववायभीरू निउणो निंदेउ मा परं सक्खा ।
जइ पयडइ अप्पथुई ता सो परनिंदओ नूणं ।।३७८ ।। अहो ! परगुणासहिष्णुरतुच्छमत्सराच्छादितोऽयमित्यादिलोकापवादभीरुनिपुणः साक्षात् मा स्म परविगहीं करोतु । तथापि यदि युक्त्यैवात्मस्तुतिं प्रकटयति तदा ध्रुवं स परनिन्दक एव । 'स्वश्लाघापरनिन्दयोर्जनिमृत्योरिव परस्परानुगतत्वात्' ।।३७८ ।।
ननु स्वरूपाख्यानमात्रमपि रन्ध्रमधिगम्य यदि परनिन्देयमवतरति तदाऽवतरतु केयमेतद्विषया बिभीषिकेति चेत्, तदाह -
परनिंदा पुण भणिया जिणेहिं जियरागदोसमोहेहिं ।
कुगइगममूलबीयं सपरेसि कसायहेउ त्ति ।।३७९।। परनिन्दा पुनर्जितरागद्वेषमोहेर्भगवद्भिर्जिनैः कुगतिगमनमूलबीजत्वेन भणिता । कुत
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org