Book Title: Hitopadesh
Author(s): Prabhanandsuri, Parmanandsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 437
________________ ३९२ हितोपदेशः । गाथा-४२४ - पञ्चमाणुव्रतातिचाराः ।। परिग्रहः परिग्रहप्रमाणव्रतमपि स्थूलसूक्ष्मभेदाद् द्विविधम् । तत्र परद्रव्ये यन्मनोमू मात्रं तत् सूक्ष्मं स्थूलं तु धनादिनवभेदम् । धन-धान्य-क्षेत्र-वास्तु-रूप्य-स्वर्ण-चतुष्पद-द्विपदकुप्यादिभेदान्नवधा । तत्र धनं गणिम-धडिम-मेयपरीक्ष्यलक्षणम् । यदाह - गणिमं जाईफलपुष्फलाइ धडिमं च कुंकुमगुडाई । मिजं चुप्पडलोणाइ रयणवत्थाइ परिछिजं ।।१।। तथा [संबोध प्रक. श्रा. व्रताधि. गा. ५३] धान्यं व्रीह्यादिसप्तदशविधम् । क्षेत्रं सस्योत्पत्तिभूमिः । तत् सेतु-केतु-तदुभयभेदात् त्रिविधम् । तत्र अरघट्टजलनिष्पाद्यसस्यं सेतुक्षेत्रम् । आकाशोदकान्निष्पाद्यसस्यं केतुक्षेत्रम् । उभयजल निष्पाद्यसस्यमुभयम् । वास्तु गृहग्रामनगरादि । रूप्यं रजतम् । स्वर्णं कनकम् । चतुष्पदं गोमहिष्यादि । द्विपदं दासकर्मकरादि । कुप्यं रूप्यसुवर्णव्यतिरिक्तं कांस्यलोहताम्रादिभाण्डम् । अयं नवविधोऽपि स्थूल: परिग्रहः । अस्य च मूर्छाविच्छेदेन इत्वरं यावत्कथिकं वा परिमाणकरणं पञ्चमाणुव्रतम् ।।४२३ ।। 'अस्यातिचारानाह - खित्ताई -हिरनाई-धणाइ-दुपयाइ-कुप्पमाणकमे । जोयण-पयाण-बंधण-कारण-भावेहि नो कुणइ ।।४२४ ।। गाथा-४२४ 1. तुला - अत्राऽतिचारानाह - खेत्ताइहिरण्णाईधणाइदुपयाइकुप्पमाणकमे । जोयणपयाणबंधणकारणभावेहिं नो कुणइ ।। - श्रा. ध, वि. प्र. गा. ८८।। (क्षेत्रादिहिरण्यादिधनादिद्विपदादिकुप्यमानक्रमान् । योजनप्रदानबन्धनकारणभावैर्न करोति ।।) “खेत्ताइ" गाहा व्याख्या - क्षेत्रादिहिरण्यादिधनादिद्विपदादिकुप्यमानक्रमान्' क्षेत्रादिगृहीतपरिमाणातिक्रमानित्यर्थः । ‘योजनप्रदानबन्धनकारणभावैः' एभिर्योजनादिभिर्यथासंख्यं न करोति' न विधत्ते इति समुदायार्थः । तत्र क्षेत्रवास्तूनां योजनेन द्वित्रादीनां गृहीतपरिमाणभङ्गभयाद् वृत्त्याद्यपनयनादिनैकत्वाद्यापादनेनेत्यर्थः १ । एवं हिरण्यसुवर्णयोः प्रदानेन गृहीतपरिमाणावधिकालात्परत उद्ग्राहणीययोर्वृद्धिप्रयुक्ता २ । धनधान्ययोर्बन्धनेन - सत्यङ्कारादिना नियन्त्रणेन ३ । द्विपदचतुष्पदयो: कारणेन - गर्भाधानप्रयोजनेन ४ । कुप्यस्य च भावेन - अध्यवसायेन तदर्थित्वरूपेण ४ । एतत्तु सर्वमपि प्रदानादि परिमाणावधीकृतचतुर्मासकादिकालादर्वागेवं करोति, किल ममैतदवधीकृतकालात्परत एव परिग्रहविषयीभविष्यतीत्यध्यवसायेन । अत्र चादिशब्दाद् आगमपाठप्रसिद्धवास्त्वादिग्राहकाः । तथा चागमः - "धणधण्णप्पमाणाइक्कमे खेत्तवत्थुपमाणातिक्कमे हिरण्णसुवण्णप्पमाणाइक्कमे दुपयचउप्पयप्पमाणाइक्कमे कुविअपमाणाइक्कमे ।"[ ] पञ्चसंख्याविषयत्वं च सजातीयत्वेन शेषभेदानामत्रैवाऽन्तर्भावाच्छिष्यहितत्वेन च प्रायः सर्वत्र मध्यमगतेर्विवक्षितत्वात् पञ्चकसंख्ययैवातिचारपरिगणनम्, अतश्चतुष्पडादिसंख्ययाऽतिचाराणामऽगणनमुपपन्नम् । इति गाथार्थः ।।। - श्रा. ध. वि. प्र. गाथा-८८ वृत्तौ ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534