Book Title: Hitopadesh
Author(s): Prabhanandsuri, Parmanandsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 435
________________ ३९० हितोपदेशः । गाथा-४२२ - चतुर्थाणुव्रतातिचाराः ।। करोति, न कारयति । वचसा न करोति, न कारयति । कायेन न करोति, न कारयति । अनुमतेस्तु सर्वत्र सम्भवान्न निषेधः । तैरश्चं तु मैथुनमेकविधत्रिविधेन वर्जयति । यथा - मनसा वचसा कायेन स्वयं न करोति । योनिपोषणादिप्रवृत्तस्य कारणे न नियमः । अनुमतिस्त्वप्रतिहतैव । मानुषे च मैथुने द्विविधा विरतिः । स्वदारसन्तोषरूपा परदारनिवृत्तिरूपा च । तत्र स्वदारसन्तुष्टस्य स्वकलत्रमन्तरेण सर्वत्र नियमः । परदारवर्जकस्य तु स्वस्त्रियं पणस्त्रियं च विनाऽन्यत्र नियमः ।।४२१।। 'अस्यातिचारानाह - वजइ इत्तिरि-अपरिग्गहियागमणं अणंगकीडं च । __ परवीवाहक्करणं कामे तिव्वाभिलासमिह ।।४२२।। इहास्मिन् ब्रह्मव्रते अमूनतिचारान् वर्जयति । तत्र स्वदारसन्तुष्टस्य इत्वरीं प्रतिपुरुषमयन-शीलां वेश्यां भाटीप्रदानादित्वरकालं स्वकलत्रीकृत्य सेवमानस्यातिचारः नन्वेवं भङ्ग एव कथं न स्यात् ? उच्यते - किलेयं द्रव्यादिदानेन मया स्वीकृता, अतो मे स्वकलत्रमेवेदमिति कल्पनया व्रतसापेक्षस्यातिचारतेति प्रथमः । परदारवर्जिनस्त्वन्यपरिगृहीतां वेश्यां तथा स्वैरिणी प्रोषितपतिकामनाथकुलाङ्गनां च । किल यद्यपि कतिचिद्दिनानि गृहीतान्यभाटी तथापि वेश्या वेश्यैव । मम तु परकलत्रस्यैव नियम इति बुद्ध्या वेश्यां, तथा स्वैरिणी प्रोषितभर्तृका विनाथकुलाङ्गनाश्च न कस्यापि परिग्रहे । मम तु परपरिगृहीतास्वेव नियम इति कल्पनया गाथा-४२२ 1. तुला - उक्तं सातिचारं तृतीयाणुव्रतम् । साम्प्रतं चतुर्थमाह - परदारस्स य विरई, ओरालविउव्वभेयओ दुविहं । एयमिह मुणेयव्वं, सदारसंतोस मो इत्थ ।। - श्रा. ध. वि. प्र. गा. ८५॥ (परदाराणां च विरतिः, औदारिकवैक्रियभेदतो द्विविधम् । एतदिह ज्ञातव्यं स्वदारसंतोषोऽत्र ।।) “परदारा" गाहा व्याख्या - परे - आत्मव्यतिरिक्तास्तेषां दाराः - कलत्राणि परदारास्तेभ्यस्तेषां वेति, प्राग्वत् षष्ठी । एकवचनान्तता तु प्राकृतत्वात् । परकलत्रस्यैव विरतिः, न वेश्याया अपीत्यर्थः । चतुर्थमणुव्रतमिति प्रक्रमः । चशब्दः समुच्चये । स्वदारसंतोषश्चेत्यत्र द्रष्टव्य: । 'औदारिकवैक्रियभेदतो द्विविधमेतद् ज्ञातव्यं' इति, एतदिति प्राकृतत्वेन नपुंसकनिर्देशः, ‘एते' परदारा इति द्रष्टव्यम्, औदारिकवैक्रियभेदत 'द्विविधाः' द्विप्रकाराः तत्रौदारिका नार्यः तिरश्च्यश्च । वैक्रिया विद्याधर्यो देव्यश्च । स्वस्य दाराः स्वदाराः - स्वकलत्रं तैः संतोषः स्वदारसंतोषः, मैथुनाऽसेवनं प्रति वेश्यादेरपि वर्जनमिति हृदयम् । स्वदारसंतोषश्चतुर्थाऽणुव्रतमिति योजितमेव । अत्र चतुर्थाऽणुव्रते वर्जयतीत्युत्तरेण योगः । इति गाथार्थः ।।८५।। - श्रा. ध. वि. प्र. गा. ८५ वृत्तौ ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534