________________
३९०
हितोपदेशः । गाथा-४२२ - चतुर्थाणुव्रतातिचाराः ।।
करोति, न कारयति । वचसा न करोति, न कारयति । कायेन न करोति, न कारयति । अनुमतेस्तु सर्वत्र सम्भवान्न निषेधः । तैरश्चं तु मैथुनमेकविधत्रिविधेन वर्जयति । यथा - मनसा वचसा कायेन स्वयं न करोति । योनिपोषणादिप्रवृत्तस्य कारणे न नियमः । अनुमतिस्त्वप्रतिहतैव । मानुषे च मैथुने द्विविधा विरतिः । स्वदारसन्तोषरूपा परदारनिवृत्तिरूपा च । तत्र स्वदारसन्तुष्टस्य स्वकलत्रमन्तरेण सर्वत्र नियमः । परदारवर्जकस्य तु स्वस्त्रियं पणस्त्रियं च विनाऽन्यत्र नियमः ।।४२१।। 'अस्यातिचारानाह -
वजइ इत्तिरि-अपरिग्गहियागमणं अणंगकीडं च । __ परवीवाहक्करणं कामे तिव्वाभिलासमिह ।।४२२।। इहास्मिन् ब्रह्मव्रते अमूनतिचारान् वर्जयति । तत्र स्वदारसन्तुष्टस्य इत्वरीं प्रतिपुरुषमयन-शीलां वेश्यां भाटीप्रदानादित्वरकालं स्वकलत्रीकृत्य सेवमानस्यातिचारः नन्वेवं भङ्ग एव कथं न स्यात् ? उच्यते - किलेयं द्रव्यादिदानेन मया स्वीकृता, अतो मे स्वकलत्रमेवेदमिति कल्पनया व्रतसापेक्षस्यातिचारतेति प्रथमः । परदारवर्जिनस्त्वन्यपरिगृहीतां वेश्यां तथा स्वैरिणी प्रोषितपतिकामनाथकुलाङ्गनां च । किल यद्यपि कतिचिद्दिनानि गृहीतान्यभाटी तथापि वेश्या वेश्यैव । मम तु परकलत्रस्यैव नियम इति बुद्ध्या वेश्यां, तथा स्वैरिणी प्रोषितभर्तृका विनाथकुलाङ्गनाश्च न कस्यापि परिग्रहे । मम तु परपरिगृहीतास्वेव नियम इति कल्पनया
गाथा-४२२ 1. तुला - उक्तं सातिचारं तृतीयाणुव्रतम् । साम्प्रतं चतुर्थमाह - परदारस्स य विरई, ओरालविउव्वभेयओ दुविहं । एयमिह मुणेयव्वं, सदारसंतोस मो इत्थ ।।
- श्रा. ध. वि. प्र. गा. ८५॥ (परदाराणां च विरतिः, औदारिकवैक्रियभेदतो द्विविधम् । एतदिह ज्ञातव्यं स्वदारसंतोषोऽत्र ।।)
“परदारा" गाहा व्याख्या - परे - आत्मव्यतिरिक्तास्तेषां दाराः - कलत्राणि परदारास्तेभ्यस्तेषां वेति, प्राग्वत् षष्ठी । एकवचनान्तता तु प्राकृतत्वात् । परकलत्रस्यैव विरतिः, न वेश्याया अपीत्यर्थः । चतुर्थमणुव्रतमिति प्रक्रमः । चशब्दः समुच्चये । स्वदारसंतोषश्चेत्यत्र द्रष्टव्य: । 'औदारिकवैक्रियभेदतो द्विविधमेतद् ज्ञातव्यं' इति, एतदिति प्राकृतत्वेन नपुंसकनिर्देशः, ‘एते' परदारा इति द्रष्टव्यम्, औदारिकवैक्रियभेदत 'द्विविधाः' द्विप्रकाराः तत्रौदारिका नार्यः तिरश्च्यश्च । वैक्रिया विद्याधर्यो देव्यश्च । स्वस्य दाराः स्वदाराः - स्वकलत्रं तैः संतोषः स्वदारसंतोषः, मैथुनाऽसेवनं प्रति वेश्यादेरपि वर्जनमिति हृदयम् । स्वदारसंतोषश्चतुर्थाऽणुव्रतमिति योजितमेव । अत्र चतुर्थाऽणुव्रते वर्जयतीत्युत्तरेण योगः । इति गाथार्थः ।।८५।। - श्रा. ध. वि. प्र. गा. ८५ वृत्तौ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org