________________
हितोपदेशः । गाथा-४२०, ४२१ - चतुर्थाणुव्रतस्वरूपम् ।।
३८९
व्रतभङ्गरूपैव । केवलं सन्धिदानादिकमेव चौर्यत्वेन रूढं, इदं तु वणिज्यकलाकौशलमेवेति व्रतसापेक्षस्यातिचारता यदि वा चौरोपनीतग्रहणादयः पञ्चापि स्फुटचौर्यरूपा एव । केवलं सहसाकाराऽतिक्रमव्यतिक्रमादिना विधीयमानाऽतिचारतया व्यपदिश्यन्ते ।।४१९ ।। 'चतुर्थाणुव्रतमभिधत्ते -
मेहुन्नं पि हु दुविहं, थूलं सुहुमं च सुहुममियमित्थ ।
इंदियविगारमित्तं थूलं सव्वंगसंभोगो ।।४२०।। पुंस्त्रीरूपं मिथुनं । मिथुनस्य भावः कर्म वा मैथुनम् । तदपि द्विविधं स्थूलं सूक्ष्मं च । तत्र भेदद्वये इदं सूक्ष्मं । यदुत - इन्द्रियाणां चक्षुरादीनां मनोविकारजनितं किञ्चिद् विकृतमात्रमाविर्भवति, न पुनर्वाक्कायिकी कुप्रवृत्तिः इदं च प्रायः सर्वथाऽब्रह्मवर्जकविषयं । स्थूलं तु दम्पत्योः परस्परं सर्वाङ्गसम्भोगः ।।४२०।। अत्र देशविरतविभागमाह -
दुविहं तिविहेण दिव्वं एगविहं तिविहं तिरियमेहुन्न ।
माणुस्से परदारं वजिज रमिज व सदारे ।।४२१।। द्विविधं हि मैथुनम् । दिव्यमौदारिकं च । औदारिकमपि द्विविधम् । तैरश्चं मानुषं च । तत्र दिव्यं चतुर्विधदेवनिकायोद्भवम् । तस्माद् द्विविधं त्रिविधेन विरतिं विधत्ते । यथा मनसा न
गाथा-४२० 1. तुला - उक्तं सातिचारं तृतीयाणुव्रतम् । साम्प्रतं चतुर्थमाह - परदारस्स य विरई, ओरालविउवभेयओ दुविहं । एयमिह मुणेयव्वं, सदारसंतोस मो इत्थ ।।
- श्रा. ध. वि. प्र. गा. ८५॥ (परदाराणां च विरतिः, औदारिकवैक्रियभेदतो द्विविधम् । एतदिह ज्ञातव्यं स्वदारसंतोषोऽत्र ।।)।
“परदारा" गाहा व्याख्या - परे - आत्मव्यतिरिक्तास्तेषां दारा: - कलत्राणि परदारास्तेभ्यस्तेषां वेति, प्राग्वत् षष्ठी । एकवचनान्तता तु प्राकृतत्वात् । परकलत्रस्यैव विरतिः, न वेश्याया अपीत्यर्थः । चतुर्थमणुव्रतमिति प्रक्रमः । चशब्दः समुञ्चये । स्वदारसंतोषश्चेत्यत्र द्रष्टव्यः । 'औदारिकवैक्रियभेदतो द्विविधमेतद् ज्ञातव्यं' इति, एतदिति प्राकृतत्वेन नपुंसकनिर्देशः, एते' परदारा इति द्रष्टव्यम्, औदारिकवैक्रियभेदत 'द्विविधाः' द्विप्रकाराः तत्रौदारिका नार्यः तिरश्चयश्च । वैक्रिया विद्याधर्यो देव्यश्च । स्वस्य दाराः स्वदाराः - स्वकलत्रं तैः संतोषः स्वदारसंतोषः, मैथुनाऽसेवनं प्रति वेश्यादेरपि वर्जनमिति हृदयम् । स्वदारसंतोषश्चतुर्थाऽणुव्रतमिति योजितमेव । अत्र चतुर्थाऽणुव्रते वर्जयतीत्युत्तरेण योगः । इति गाथार्थः ।।८५।।
- श्रा. ध. वि. प्र. गा. ८५ वृत्तौ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org