________________
हितोपदेशः । गाथा-४२३ - पञ्चमाणुव्रतस्वरूपम् ।।
३९१
सेवमानस्य व्रतसापेक्षत्वेन तत्त्वतस्तु तासां परस्त्रीत्वेन भङ्गाभङ्गरूपो द्वितीयोऽतिचारः । तथा अङ्गं देहावयवो मैथुनापेक्षया योनिर्मेहनं च । तद्व्यतिरिक्तान्यनङ्गानि कुचकक्षोरुवदनादीनि, तेषु क्रीडा अनङ्गक्रीडा । तृतीयोऽतिचारः । तथा परेषां स्वस्वापत्यव्यतिरिक्तानां विवाहनं विवाहकरणम् । कन्याफललिप्सया स्नेहसम्बन्धादिना वा परिणयनविधानम् । इदं च स्वदारसन्तोषवता स्वकलत्रात् परदारवर्जन च कलत्रवेश्याभ्यामन्यत्र मनोवाक्कायैमैथुनं न कार्यम, न च कारणीयमिति यदा प्रतिपन्नं व्रतं भवति, तदा अन्यविवाहकरणं मैथुनकारणमर्थतः प्रतिषिद्धमेव । तव्रती तु मन्यते विवाह एवायं मया विधीयते, न मैथुनं कार्यत इति व्रतसापेक्षत्वादतिचारश्चतुर्थः। तथा कामे स्मरव्यापारे परित्यक्तान्यसकलकृत्यजातस्य नक्तन्दिनं तीव्रस्तीव्रमोहोदयजनितोऽभिलाषस्तद्वशाञ्च सञ्जातबलक्षयस्य किलानेनौषधप्रयोगेण गजप्रसेकी तुरगावमर्दी च पुरुषो भवतीति बुद्ध्या वाजीकरणान्यासेवमानस्य पञ्चमोऽतिचारः । इह च श्रावकोऽत्यन्तपापभीरुर्ब्रह्मचर्यं चिकीर्षुरपि वेदोदयाऽसहिष्णुतया तद् विधातुमशक्तो यापनार्थं स्वदारसन्तोषादि प्रतिपद्यते । मैथुनमात्रेण च सम्भवन्त्यां यापनायामनङ्गक्रीडाकामतीव्राभिलाषावर्थतः प्रतिषिद्धौ । तत्सेवनेन हि छिदाराजयक्ष्मादयो रोगा एव भवन्तीत्यर्थतः प्रतिषिद्धाचरणाद् भङ्गो नियमाबाधनाञ्चाभङ्ग इत्यतिचारावेतौ ।।४२२।। पञ्चमाणुव्रतमाह -
दुविहो परिग्गहो वि हु, थूलो सुहुमो य तत्थ परदब्वे । मुच्छामित्तं सुहुमो थूलो उ धणाइनवभेओ ।।४२३।।
गाथा-४२३ 1. तुला - उक्तं सातिचारं चतुर्थमणुव्रतम् । सांप्रतं पञ्चममुच्यते - इच्छापरिमाणं खलु, असयारंभविणिवित्तिसंजणयं । खित्ताइवत्थुविसयं, चित्तादविरोहओ चित्तं ।।
- श्रा. ध. वि. प्र. गा. ८७॥ (इच्छापरिमाणं खलु, असदारम्भविनिवृत्तिसंजनकम् । क्षेत्रादिवस्तुविषयं, चित्ताद्यविरोधाञ्चित्रं ।।)
"इच्छा" गाहा व्याख्या - इच्छाया इच्छया वा परिमाणं इच्छापरिमाणं पञ्चममणुव्रतमिति प्रक्रमगम्यम् । तञ्चेच्छापरिमाणं किंफलम् ? इत्याह - ‘असदा-रम्भविनिवृत्तिसंजनक' असुन्दरारम्भप्रत्याख्याननिबन्धनम् । तच्च 'क्षेत्रादिवस्तुविषयं' क्षेत्रादीनि वस्तूनि विषयोऽस्येति समासः । तदुक्तम् - “धणं धण्णं खेत्तं वत्थु रुप्पं सुवण्णं कुविअं दुपयं चउप्पयं च" [ ] इत्यादि । अत्र चादिशब्दः प्रकारवचनः । क्षेत्रादयः क्षेत्रप्रकारा धनादय इत्यर्थः । 'चित्ताद्यविरोधात्' चित्तवित्तदेशवंशाद्याश्रयेण 'चित्रम्' अनेकाकारम् ५ । इति गाथार्थः ।।
- श्रा. ध. वि. प्र. गाथा-८७ वृत्तौ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org