________________
३९२
हितोपदेशः । गाथा-४२४ - पञ्चमाणुव्रतातिचाराः ।।
परिग्रहः परिग्रहप्रमाणव्रतमपि स्थूलसूक्ष्मभेदाद् द्विविधम् । तत्र परद्रव्ये यन्मनोमू मात्रं तत् सूक्ष्मं स्थूलं तु धनादिनवभेदम् । धन-धान्य-क्षेत्र-वास्तु-रूप्य-स्वर्ण-चतुष्पद-द्विपदकुप्यादिभेदान्नवधा । तत्र धनं गणिम-धडिम-मेयपरीक्ष्यलक्षणम् । यदाह -
गणिमं जाईफलपुष्फलाइ धडिमं च कुंकुमगुडाई ।
मिजं चुप्पडलोणाइ रयणवत्थाइ परिछिजं ।।१।। तथा [संबोध प्रक. श्रा. व्रताधि. गा. ५३] धान्यं व्रीह्यादिसप्तदशविधम् । क्षेत्रं सस्योत्पत्तिभूमिः । तत् सेतु-केतु-तदुभयभेदात् त्रिविधम् । तत्र अरघट्टजलनिष्पाद्यसस्यं सेतुक्षेत्रम् । आकाशोदकान्निष्पाद्यसस्यं केतुक्षेत्रम् । उभयजल निष्पाद्यसस्यमुभयम् । वास्तु गृहग्रामनगरादि । रूप्यं रजतम् । स्वर्णं कनकम् । चतुष्पदं गोमहिष्यादि । द्विपदं दासकर्मकरादि । कुप्यं रूप्यसुवर्णव्यतिरिक्तं कांस्यलोहताम्रादिभाण्डम् । अयं नवविधोऽपि स्थूल: परिग्रहः । अस्य च मूर्छाविच्छेदेन इत्वरं यावत्कथिकं वा परिमाणकरणं पञ्चमाणुव्रतम् ।।४२३ ।। 'अस्यातिचारानाह -
खित्ताई -हिरनाई-धणाइ-दुपयाइ-कुप्पमाणकमे । जोयण-पयाण-बंधण-कारण-भावेहि नो कुणइ ।।४२४ ।।
गाथा-४२४ 1. तुला - अत्राऽतिचारानाह - खेत्ताइहिरण्णाईधणाइदुपयाइकुप्पमाणकमे । जोयणपयाणबंधणकारणभावेहिं नो कुणइ ।।
- श्रा. ध, वि. प्र. गा. ८८।। (क्षेत्रादिहिरण्यादिधनादिद्विपदादिकुप्यमानक्रमान् । योजनप्रदानबन्धनकारणभावैर्न करोति ।।)
“खेत्ताइ" गाहा व्याख्या - क्षेत्रादिहिरण्यादिधनादिद्विपदादिकुप्यमानक्रमान्' क्षेत्रादिगृहीतपरिमाणातिक्रमानित्यर्थः । ‘योजनप्रदानबन्धनकारणभावैः' एभिर्योजनादिभिर्यथासंख्यं न करोति' न विधत्ते इति समुदायार्थः । तत्र क्षेत्रवास्तूनां योजनेन द्वित्रादीनां गृहीतपरिमाणभङ्गभयाद् वृत्त्याद्यपनयनादिनैकत्वाद्यापादनेनेत्यर्थः १ । एवं हिरण्यसुवर्णयोः प्रदानेन गृहीतपरिमाणावधिकालात्परत उद्ग्राहणीययोर्वृद्धिप्रयुक्ता २ । धनधान्ययोर्बन्धनेन - सत्यङ्कारादिना नियन्त्रणेन ३ । द्विपदचतुष्पदयो: कारणेन - गर्भाधानप्रयोजनेन ४ । कुप्यस्य च भावेन - अध्यवसायेन तदर्थित्वरूपेण ४ । एतत्तु सर्वमपि प्रदानादि परिमाणावधीकृतचतुर्मासकादिकालादर्वागेवं करोति, किल ममैतदवधीकृतकालात्परत एव परिग्रहविषयीभविष्यतीत्यध्यवसायेन । अत्र चादिशब्दाद् आगमपाठप्रसिद्धवास्त्वादिग्राहकाः । तथा चागमः - "धणधण्णप्पमाणाइक्कमे खेत्तवत्थुपमाणातिक्कमे हिरण्णसुवण्णप्पमाणाइक्कमे दुपयचउप्पयप्पमाणाइक्कमे कुविअपमाणाइक्कमे ।"[ ] पञ्चसंख्याविषयत्वं च सजातीयत्वेन शेषभेदानामत्रैवाऽन्तर्भावाच्छिष्यहितत्वेन च प्रायः सर्वत्र मध्यमगतेर्विवक्षितत्वात् पञ्चकसंख्ययैवातिचारपरिगणनम्, अतश्चतुष्पडादिसंख्ययाऽतिचाराणामऽगणनमुपपन्नम् । इति गाथार्थः ।।।
- श्रा. ध. वि. प्र. गाथा-८८ वृत्तौ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org