________________
हितोपदेशः । गाथा-४२५ - प्रथमगुणव्रतस्वरूपम् ।।
३९३
इह परिग्रहसङ्ख्यातिक्रमभीरोरेतदेतत् कुर्वाणस्य गृहिणः पञ्चातिचाराः सम्भवति । तद्यथा - अत्र क्षेत्रादि-हिरण्यादि-धनादि-द्विपदादि-कुप्यादि पञ्चपदानि योजन-प्रदान-बन्धनकारणभावलक्षणैः पञ्चभिरुत्तरपदैर्योज्यानि । तत्र क्षेत्रवास्तुप्रभृतीनां सङ्ख्यातिक्रमभीरो: सन्निहितक्षेत्रगृहादिव गृहीत्वा एकीकुर्वतां प्रथमोऽतिचारः । हिरण्यादि च सङ्ख्याधिक स्वकलत्रपुत्रीप्रभृतीनां चातुर्मासादिनियमावधिपरिसमाप्तौ तदन्यविक्रये वा पुनरादानबुद्ध्या प्रददतो द्वितीयोऽतिचारः । धनधान्यादि च प्रमाणाधिकमवबुध्य व्रतसापेक्षतया नियमावधिं तदन्यविक्रय वा यावदन्यवेश्मादौ धारयतस्तृतीयोऽतिचारः । द्विपदचतुष्पदपरिग्रहे च कारणतः, तत्र कारणं पितृमात्रादि, कार्यमपत्यादि । अतो द्विपदचतुष्पदादीनि नियमिताधिकानि व्रतभङ्गभीरुर्न गृह्णाति । तज्जातानि वत्सरूपाणि संख्याधिकान्यपि किल नामूनि मया नियमग्रहणानन्तरं गृहीतानीति बुद्ध्या कारणं गणयतः कार्यं चागणयतः चतुर्थोऽतिचारः । तथा कुप्यं कांस्यताम्रादिभाजनानि । तानि च परिमाणकरणानन्तरं विभवादिसमुदये प्रचुराणि चिकीर्षतो व्रतभङ्गभीरुतया चाकुर्वतः पूर्वपरिमितानि गणनया अवर्द्धयतोऽपि तौल्यप्रमाणाभ्यां वर्द्धयतः पञ्चमोऽतिचारः ।।४२४ ।।
व्याख्यातानि साऽतिचाराणि पञ्चाणुव्रतानि । अथ अतो गुणव्रतानि व्याचिख्यासुः, प्रथम गुणव्रतमाह -
उड्डाहोतिरियदिसिं, चाउम्मासाइकालमाणेण । गमणपरिमाणकरणं गुणव्वयं होइ पढममिह ।।४२५।।
क्षेत्रवास्तु - हिरण्यसुवर्ण - धनधान्य - दासीदास - कुप्य-प्रमाणातिक्रमाः ।।
- तत्त्वा. सू. ७/२४ ।। ध. बि. ।। अ. ३/२७ ।। धणधन्नखित्तवत्थू, रुप्पसुवने अ कुविअपरिमाणे । दुपए चउप्पयंमि, पडिक्कमे देसि सव्वं ।।
- श्रा. प्र. वृ. गा. १८।। गाथा-४२५ 1. तुला - उक्तान्यणुव्रतानि, सांप्रतं गुणव्रतान्याह - तत्रापि प्रथमं दिग्व्रतम्, तदाह - उड्डाहोतिरियदिसिं, चाउम्मासाइकालमाणेणं । गमणपरिमाणकरणं, गुणव्वयं होइ विण्णेयं ।।
- श्रा. ध. वि. प्र. गा. ८९ ।। (ऊर्ध्वाधस्तिर्यग्दिशम् चातुर्मास्यादिकालमानेन । गमनपरिमाणकरणं गुणव्रतं, भवति विज्ञेयम् ।।)
"उड्डाहो" गाहा व्याख्या - 'ऊर्ध्वाधस्तिर्यग्दिशम्' इति ऊर्ध्वपर्वतारोहणादौ, अधः-कूपप्रवेशादौ, तिर्यग्-पूर्वाद्यासु दिक्षु, दिक् शब्दः प्रत्येकमभिसंबध्यते; ऊर्ध्वादिदिशमङ्गीकृत्य 'चातुर्मास्यादिकालमानेन' चतुरो मासान्, अष्टौ वा यावत् इत्यादि । 'गमनपरिमाणकरणम्' अभिप्रेतक्षेत्रात् परतो गमननिवृत्तिरित्यर्थः । ‘गुणव्रतम्' अणुव्रतानामेव
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org