Book Title: Hitopadesh
Author(s): Prabhanandsuri, Parmanandsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 438
________________ हितोपदेशः । गाथा-४२५ - प्रथमगुणव्रतस्वरूपम् ।। ३९३ इह परिग्रहसङ्ख्यातिक्रमभीरोरेतदेतत् कुर्वाणस्य गृहिणः पञ्चातिचाराः सम्भवति । तद्यथा - अत्र क्षेत्रादि-हिरण्यादि-धनादि-द्विपदादि-कुप्यादि पञ्चपदानि योजन-प्रदान-बन्धनकारणभावलक्षणैः पञ्चभिरुत्तरपदैर्योज्यानि । तत्र क्षेत्रवास्तुप्रभृतीनां सङ्ख्यातिक्रमभीरो: सन्निहितक्षेत्रगृहादिव गृहीत्वा एकीकुर्वतां प्रथमोऽतिचारः । हिरण्यादि च सङ्ख्याधिक स्वकलत्रपुत्रीप्रभृतीनां चातुर्मासादिनियमावधिपरिसमाप्तौ तदन्यविक्रये वा पुनरादानबुद्ध्या प्रददतो द्वितीयोऽतिचारः । धनधान्यादि च प्रमाणाधिकमवबुध्य व्रतसापेक्षतया नियमावधिं तदन्यविक्रय वा यावदन्यवेश्मादौ धारयतस्तृतीयोऽतिचारः । द्विपदचतुष्पदपरिग्रहे च कारणतः, तत्र कारणं पितृमात्रादि, कार्यमपत्यादि । अतो द्विपदचतुष्पदादीनि नियमिताधिकानि व्रतभङ्गभीरुर्न गृह्णाति । तज्जातानि वत्सरूपाणि संख्याधिकान्यपि किल नामूनि मया नियमग्रहणानन्तरं गृहीतानीति बुद्ध्या कारणं गणयतः कार्यं चागणयतः चतुर्थोऽतिचारः । तथा कुप्यं कांस्यताम्रादिभाजनानि । तानि च परिमाणकरणानन्तरं विभवादिसमुदये प्रचुराणि चिकीर्षतो व्रतभङ्गभीरुतया चाकुर्वतः पूर्वपरिमितानि गणनया अवर्द्धयतोऽपि तौल्यप्रमाणाभ्यां वर्द्धयतः पञ्चमोऽतिचारः ।।४२४ ।। व्याख्यातानि साऽतिचाराणि पञ्चाणुव्रतानि । अथ अतो गुणव्रतानि व्याचिख्यासुः, प्रथम गुणव्रतमाह - उड्डाहोतिरियदिसिं, चाउम्मासाइकालमाणेण । गमणपरिमाणकरणं गुणव्वयं होइ पढममिह ।।४२५।। क्षेत्रवास्तु - हिरण्यसुवर्ण - धनधान्य - दासीदास - कुप्य-प्रमाणातिक्रमाः ।। - तत्त्वा. सू. ७/२४ ।। ध. बि. ।। अ. ३/२७ ।। धणधन्नखित्तवत्थू, रुप्पसुवने अ कुविअपरिमाणे । दुपए चउप्पयंमि, पडिक्कमे देसि सव्वं ।। - श्रा. प्र. वृ. गा. १८।। गाथा-४२५ 1. तुला - उक्तान्यणुव्रतानि, सांप्रतं गुणव्रतान्याह - तत्रापि प्रथमं दिग्व्रतम्, तदाह - उड्डाहोतिरियदिसिं, चाउम्मासाइकालमाणेणं । गमणपरिमाणकरणं, गुणव्वयं होइ विण्णेयं ।। - श्रा. ध. वि. प्र. गा. ८९ ।। (ऊर्ध्वाधस्तिर्यग्दिशम् चातुर्मास्यादिकालमानेन । गमनपरिमाणकरणं गुणव्रतं, भवति विज्ञेयम् ।।) "उड्डाहो" गाहा व्याख्या - 'ऊर्ध्वाधस्तिर्यग्दिशम्' इति ऊर्ध्वपर्वतारोहणादौ, अधः-कूपप्रवेशादौ, तिर्यग्-पूर्वाद्यासु दिक्षु, दिक् शब्दः प्रत्येकमभिसंबध्यते; ऊर्ध्वादिदिशमङ्गीकृत्य 'चातुर्मास्यादिकालमानेन' चतुरो मासान्, अष्टौ वा यावत् इत्यादि । 'गमनपरिमाणकरणम्' अभिप्रेतक्षेत्रात् परतो गमननिवृत्तिरित्यर्थः । ‘गुणव्रतम्' अणुव्रतानामेव Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534