Book Title: Hitopadesh
Author(s): Prabhanandsuri, Parmanandsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 440
________________ हितोपदेशः । गाथा-४२७ - द्वितीयगुणवतस्वरूपम् ।। ३९५ क्रमादिभिर्विदधतोऽतिचारत्रयम् । यत्सूत्रम् "उड्डदिसिपमाणाइक्कमे, अहोदिसिपमाणाइक्कमे, तिरियदिसिपमाणाइक्कमि"[ ] त्ति तथा क्षेत्रवृद्धिः पूर्वादिदिक्ष्वन्यतरस्यां प्रयोजनवशात् कृतप्रमाणाधिकं जिगमिषोर्द्वितीयस्या दिशः प्रमाणं न्यूनीकृत्य गन्तुमिष्टायां सञ्चारयतश्चतुर्थोऽतिचारः। तथा कथमपि व्याकुलत्व - प्रमादित्व - मत्यपाटवादिभिस्स्मृतेर्योजनशतादिरूपदिक्-परिमाणविषयाया अन्तर्धाने । किं मया शतं प्रमाणीकृतमुत पञ्चाशदिति शङ्कायां पञ्चाशतमतिक्रामतोऽतिचारः पञ्चमः ।।४२६।। 'द्वितीयं गुणव्रतं ब्रूते - भोगोवभोगपरिमाणकरणमित्तो गुणव्वयं बीयं । तं भोयणओ तह कम्मओ य दुविहं मुणेयध्वं ।।४२७।। गाथा-४२७ 1. तुला - उक्तं सातिचारं प्रथमं गुणव्रतम्, अधुना द्वितीयमाह - वजणमणंतगंबरिअझंगाणं च भोगओ माणं । कम्माओ खरकम्माइयाण अवरं इमं भणियं ।। __- श्रा. ध. वि. प्र. गा. ९१।। (वर्जनमनन्तकोटुम्बराऽत्यङ्गानां च भोगतो मानम् । कर्मत: खरकर्मादीनामपरमिदं भणितम् ।) “वजण' गाहा व्याख्या - 'वर्जनं' परिहारः 'अणंतगुंबरि' त्ति अनन्तकायस्स-आर्द्रकादेरागमप्रसिद्धस्य, यदुक्तं - "चक्कागं भंजमाणस्स, गंठी चुण्णघणो भवे । पुढविसरिसेण भेएण, अणंतजीवं वियाणाहि ।।१।। गूढसिरागं पत्तं, सच्छीरं जं च होइ निच्छीरं । जं पि अ पणट्ठसंधि, अणंतजीवं वियाणाहि ।।२।। सव्वा वि कंदजाई, सूरणकंदो अ वज्जकंदो अ । अल्लहरिद्दा य तहा, अल्लं तह अल्लकयूरो ।।३।। सत्तावरी बिराली, थुहरि गिलोई च होइ नायव्वो। गजर लोणा लोढा, विरुहं तह लालवंतं च ।।४।। [ ] इत्यादि । एवं प्रसिद्धस्यानन्तकस्य वर्जनमिति योगः । तथा उदुम्बरीति-सिद्धान्तप्रसिद्धानां वटपिप्पलोदुम्बरप्लक्षकदुम्बरफलानामत्यङ्गानाम्-अतिभोगाङ्गानां मद्यमधुमांसादीनाम्, चस्य तृत्तरत्र योगः, 'भोगतः' भोगमाश्रित्य 'मानं च' - परिमाणं च । इदं हि किल द्वितीयं गुणव्रतं उपभोगपरिभोगगुणव्रताभिधानं द्विधा भवति भोजनतः कर्मतश्च । तत्रोपभुज्यत इत्युपभोगः-अशनादिः, सकृदर्थत्वादुपशब्दस्य, अन्तरर्थत्वादन्त गो वा । परिभुज्यत इति परिभोगः वस्रादेः, आवृत्त्यर्थत्वात् परिशब्दस्य, बहिरर्थत्वाद्वा बहिर्मोगः । एष चात्मक्रियारूपोऽपि विषयविषयिणोरभेदाद्विषय एवोपचरितः, अत एव तन्निबन्धनकर्मण्यप्ययमत्रोपचर्यत इत्याह - 'कर्मत:' कर्माश्रित्य 'खरकर्मादीनां' कोट्टपालकर्मादीनां वर्जनमिति प्रकृतम् । 'अपरम्' अन्यद् द्वितीयं गुणव्रतमिदं 'भणितं' प्रतिपादितं पूर्वाचार्यैरिति गम्यते ।। __ तथा च वृद्धसंप्रदाय: - "भोअणओ सावगो उस्सग्गेण फासुअं एसणीअं आहारं आहारेज्जा । तस्सासइ अणेसणीयमवि सञ्चित्तवज्जं । तस्सासइ अणंतकायबहुबीयगाणि परिहरेज्जा । असणे अल्लयमूलगमंसादि, पाणे मंसरसमज्जाई, खाइमे पंचुंबराई, साइमे महुमाई । एवं परिभोगे वि वत्थादौ थुल्लधवलप्पमुल्लाणि परिमिआणि परिभुजेज्जा । सासणगोरवत्थमुवरि विभासा, जाव देवदूसाइपरिभोगे वि परिमाणं करेज्जा । कम्मओ वि अकम्मा ___Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534