________________
हितोपदेशः । गाथा-४२७ - द्वितीयगुणवतस्वरूपम् ।।
३९५
क्रमादिभिर्विदधतोऽतिचारत्रयम् । यत्सूत्रम् "उड्डदिसिपमाणाइक्कमे, अहोदिसिपमाणाइक्कमे, तिरियदिसिपमाणाइक्कमि"[ ] त्ति तथा क्षेत्रवृद्धिः पूर्वादिदिक्ष्वन्यतरस्यां प्रयोजनवशात् कृतप्रमाणाधिकं जिगमिषोर्द्वितीयस्या दिशः प्रमाणं न्यूनीकृत्य गन्तुमिष्टायां सञ्चारयतश्चतुर्थोऽतिचारः। तथा कथमपि व्याकुलत्व - प्रमादित्व - मत्यपाटवादिभिस्स्मृतेर्योजनशतादिरूपदिक्-परिमाणविषयाया अन्तर्धाने । किं मया शतं प्रमाणीकृतमुत पञ्चाशदिति शङ्कायां पञ्चाशतमतिक्रामतोऽतिचारः पञ्चमः ।।४२६।। 'द्वितीयं गुणव्रतं ब्रूते -
भोगोवभोगपरिमाणकरणमित्तो गुणव्वयं बीयं । तं भोयणओ तह कम्मओ य दुविहं मुणेयध्वं ।।४२७।।
गाथा-४२७ 1. तुला - उक्तं सातिचारं प्रथमं गुणव्रतम्, अधुना द्वितीयमाह - वजणमणंतगंबरिअझंगाणं च भोगओ माणं । कम्माओ खरकम्माइयाण अवरं इमं भणियं ।।
__- श्रा. ध. वि. प्र. गा. ९१।। (वर्जनमनन्तकोटुम्बराऽत्यङ्गानां च भोगतो मानम् । कर्मत: खरकर्मादीनामपरमिदं भणितम् ।)
“वजण' गाहा व्याख्या - 'वर्जनं' परिहारः 'अणंतगुंबरि' त्ति अनन्तकायस्स-आर्द्रकादेरागमप्रसिद्धस्य, यदुक्तं - "चक्कागं भंजमाणस्स, गंठी चुण्णघणो भवे । पुढविसरिसेण भेएण, अणंतजीवं वियाणाहि ।।१।। गूढसिरागं पत्तं, सच्छीरं जं च होइ निच्छीरं । जं पि अ पणट्ठसंधि, अणंतजीवं वियाणाहि ।।२।। सव्वा वि कंदजाई, सूरणकंदो अ वज्जकंदो अ । अल्लहरिद्दा य तहा, अल्लं तह अल्लकयूरो ।।३।। सत्तावरी बिराली, थुहरि गिलोई च होइ नायव्वो। गजर लोणा लोढा, विरुहं तह लालवंतं च ।।४।। [ ] इत्यादि । एवं प्रसिद्धस्यानन्तकस्य वर्जनमिति योगः । तथा उदुम्बरीति-सिद्धान्तप्रसिद्धानां वटपिप्पलोदुम्बरप्लक्षकदुम्बरफलानामत्यङ्गानाम्-अतिभोगाङ्गानां मद्यमधुमांसादीनाम्, चस्य तृत्तरत्र योगः, 'भोगतः' भोगमाश्रित्य 'मानं च' - परिमाणं च । इदं हि किल द्वितीयं गुणव्रतं उपभोगपरिभोगगुणव्रताभिधानं द्विधा भवति भोजनतः कर्मतश्च । तत्रोपभुज्यत इत्युपभोगः-अशनादिः, सकृदर्थत्वादुपशब्दस्य, अन्तरर्थत्वादन्त गो वा । परिभुज्यत इति परिभोगः वस्रादेः, आवृत्त्यर्थत्वात् परिशब्दस्य, बहिरर्थत्वाद्वा बहिर्मोगः । एष चात्मक्रियारूपोऽपि विषयविषयिणोरभेदाद्विषय एवोपचरितः, अत एव तन्निबन्धनकर्मण्यप्ययमत्रोपचर्यत इत्याह - 'कर्मत:' कर्माश्रित्य 'खरकर्मादीनां' कोट्टपालकर्मादीनां वर्जनमिति प्रकृतम् । 'अपरम्' अन्यद् द्वितीयं गुणव्रतमिदं 'भणितं' प्रतिपादितं पूर्वाचार्यैरिति गम्यते ।। __ तथा च वृद्धसंप्रदाय: - "भोअणओ सावगो उस्सग्गेण फासुअं एसणीअं आहारं आहारेज्जा । तस्सासइ अणेसणीयमवि सञ्चित्तवज्जं । तस्सासइ अणंतकायबहुबीयगाणि परिहरेज्जा । असणे अल्लयमूलगमंसादि, पाणे मंसरसमज्जाई, खाइमे पंचुंबराई, साइमे महुमाई । एवं परिभोगे वि वत्थादौ थुल्लधवलप्पमुल्लाणि परिमिआणि परिभुजेज्जा । सासणगोरवत्थमुवरि विभासा, जाव देवदूसाइपरिभोगे वि परिमाणं करेज्जा । कम्मओ वि अकम्मा
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org