Book Title: Hitopadesh
Author(s): Prabhanandsuri, Parmanandsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
हितोपदेशः । गाथा-४१८, ४१९ - तृतीयाणुव्रतस्वरूपम् ।। तृतीयाणुव्रतातिचाराः।।
३८७
ननु कायेनासत्यां वाचं न वदामीति प्रतिपन्नव्रतस्य कूटलेखकरणे भङ्ग एव, कथमतीचारः । सत्यं । सहसाकाराऽनाभोगादिना तथा कुर्वतोऽतिचारः । यदि वा असत्यभणनमेव मया प्रत्याख्यातमिदं पुनर्लिखनमिति व्रतसापेक्षतयाऽतिचार इति पञ्चमः ।।४१७ ।। तृतीयाणुव्रतं ब्रूते -
दुविहमदत्तादाणं थूलं सुहुमं च तत्थ सुहुममिणं ।
तरुछायाठाणाई थूलं निवनिग्गहाइकरं ।।४१८ ।। अदत्तस्य तत्स्वामिनाऽननुज्ञातस्य वस्तुनः समादानमदत्तादानम् । तच्च स्थूलसूक्ष्मभेदाद् द्विविधम् । तत्र वृक्षाद्यधिपतिमननुज्ञाप्य तच्छायाद्यवस्थानमपि सूक्ष्ममदत्तम् । एतच्च प्रायः सर्वविरतविषयम् । स्थूलं तु सन्धिदानाद्यन्यद् वा यतश्चौरङ्कारनृपनिग्रहादयः प्रवर्तन्त इति ।।४१८।। अस्यातिचारानाह -
चोरोवणीयगहणं' तक्करजोगं विरुद्धरज्जगमं । कूडतुलकूडमाणं तप्पडिरूवं 'च अइयारा ।।४१९।।
गाथा-४१८ 1. तुला - उक्तं सातिचारं द्वितीयमणुव्रतम्, अधुना तृतीयमाह - थूलादत्तादाणे, विरई तं दुविह मो उ निद्दिटुं । सञ्चित्ताचित्तेसुं, लवणहिरण्णाइवत्थुगयं ।।
___ - श्रा. ध. वि. प्र. गा. ८३ ।। (स्थूलादत्तादाने, विरतिस्तत्तु द्विविधं निर्दिष्टम् । सचित्ताचित्तेषु, लवणहिरण्यादिवस्तुगतम् ।।)
"थूलादत्तादाणे" गाहा व्याख्या-इहादत्तादानं द्विविधं, स्थूलं सूक्ष्मं च । तत्र परिस्थूलवस्तुविषयं चौर्याऽऽरोपणहेतुत्वेन प्रतीतं स्थूलम्, तद्विपरीतं तु सूक्ष्मम् । तत्र ‘स्थूलादत्तादाने' तद्विषया 'विरतिः' निवृत्तिस्तृतीयमणुव्रतमिति प्रक्रमः । तत्तु ‘द्विविधं' द्विप्रकारम्, ‘मो' इति निपात: पादपूरणे, 'तुः' पुनरर्थे भिन्नक्रमश्च, तत्त्विति योजित एव । 'निर्दिष्टं' कथितमागम इति गम्यते । तदेव वैविध्यमाह-सचित्ताचित्तेषु' सञ्चित्तविषयमचित्तविषयं चेत्यर्थः । तदेवाहलवणहिरण्यादिवस्तुगतम् इति, जीवाऽजीवरूपत्वात् तस्य, आदिशब्दादश्ववस्त्रादिपरिग्रहः । मिश्रादत्तादानं त्वनयोरेवान्तर्भूतत्वान्न पृथग्विवक्षितम्, संक्षेपस्यैव प्रस्तुतत्वात् ३ । इति गाथार्थः ।। - श्रा. ध. वि. प्र. गा. ८३ वृत्तौ ।।
गाथा-४१९ 1. तुला - इहातिचारानाह - वनइ इह तेनाहड, तक्करजोगं विरुद्धरजं च । कूडतुलकूडमाणं, तप्पडिरूवं च ववहारं ।।
- श्रा. ध. वि. प्र. गा. ८४ ।। (वर्जयतीह स्तेनाहृतं, तस्करयोगं विरुद्धराज्यं च । कूटतुलाकूटमानं तत्प्रतिरूपं, च व्यवहारम् ।।)
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534