SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ हितोपदेशः । गाथा-४१८, ४१९ - तृतीयाणुव्रतस्वरूपम् ।। तृतीयाणुव्रतातिचाराः।। ३८७ ननु कायेनासत्यां वाचं न वदामीति प्रतिपन्नव्रतस्य कूटलेखकरणे भङ्ग एव, कथमतीचारः । सत्यं । सहसाकाराऽनाभोगादिना तथा कुर्वतोऽतिचारः । यदि वा असत्यभणनमेव मया प्रत्याख्यातमिदं पुनर्लिखनमिति व्रतसापेक्षतयाऽतिचार इति पञ्चमः ।।४१७ ।। तृतीयाणुव्रतं ब्रूते - दुविहमदत्तादाणं थूलं सुहुमं च तत्थ सुहुममिणं । तरुछायाठाणाई थूलं निवनिग्गहाइकरं ।।४१८ ।। अदत्तस्य तत्स्वामिनाऽननुज्ञातस्य वस्तुनः समादानमदत्तादानम् । तच्च स्थूलसूक्ष्मभेदाद् द्विविधम् । तत्र वृक्षाद्यधिपतिमननुज्ञाप्य तच्छायाद्यवस्थानमपि सूक्ष्ममदत्तम् । एतच्च प्रायः सर्वविरतविषयम् । स्थूलं तु सन्धिदानाद्यन्यद् वा यतश्चौरङ्कारनृपनिग्रहादयः प्रवर्तन्त इति ।।४१८।। अस्यातिचारानाह - चोरोवणीयगहणं' तक्करजोगं विरुद्धरज्जगमं । कूडतुलकूडमाणं तप्पडिरूवं 'च अइयारा ।।४१९।। गाथा-४१८ 1. तुला - उक्तं सातिचारं द्वितीयमणुव्रतम्, अधुना तृतीयमाह - थूलादत्तादाणे, विरई तं दुविह मो उ निद्दिटुं । सञ्चित्ताचित्तेसुं, लवणहिरण्णाइवत्थुगयं ।। ___ - श्रा. ध. वि. प्र. गा. ८३ ।। (स्थूलादत्तादाने, विरतिस्तत्तु द्विविधं निर्दिष्टम् । सचित्ताचित्तेषु, लवणहिरण्यादिवस्तुगतम् ।।) "थूलादत्तादाणे" गाहा व्याख्या-इहादत्तादानं द्विविधं, स्थूलं सूक्ष्मं च । तत्र परिस्थूलवस्तुविषयं चौर्याऽऽरोपणहेतुत्वेन प्रतीतं स्थूलम्, तद्विपरीतं तु सूक्ष्मम् । तत्र ‘स्थूलादत्तादाने' तद्विषया 'विरतिः' निवृत्तिस्तृतीयमणुव्रतमिति प्रक्रमः । तत्तु ‘द्विविधं' द्विप्रकारम्, ‘मो' इति निपात: पादपूरणे, 'तुः' पुनरर्थे भिन्नक्रमश्च, तत्त्विति योजित एव । 'निर्दिष्टं' कथितमागम इति गम्यते । तदेव वैविध्यमाह-सचित्ताचित्तेषु' सञ्चित्तविषयमचित्तविषयं चेत्यर्थः । तदेवाहलवणहिरण्यादिवस्तुगतम् इति, जीवाऽजीवरूपत्वात् तस्य, आदिशब्दादश्ववस्त्रादिपरिग्रहः । मिश्रादत्तादानं त्वनयोरेवान्तर्भूतत्वान्न पृथग्विवक्षितम्, संक्षेपस्यैव प्रस्तुतत्वात् ३ । इति गाथार्थः ।। - श्रा. ध. वि. प्र. गा. ८३ वृत्तौ ।। गाथा-४१९ 1. तुला - इहातिचारानाह - वनइ इह तेनाहड, तक्करजोगं विरुद्धरजं च । कूडतुलकूडमाणं, तप्पडिरूवं च ववहारं ।। - श्रा. ध. वि. प्र. गा. ८४ ।। (वर्जयतीह स्तेनाहृतं, तस्करयोगं विरुद्धराज्यं च । कूटतुलाकूटमानं तत्प्रतिरूपं, च व्यवहारम् ।।) Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002567
Book TitleHitopadesh
Original Sutra AuthorN/A
AuthorPrabhanandsuri, Parmanandsuri, Kirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy