________________
३८६
हितोपदेशः । गाथा-४१७ - द्वितीयाणुव्रतातिचाराः ।।
सहसा अनालोच्याभ्याख्यानमसद्दोषारोपणम् । यथा चौरोऽयं पारदारिको वेत्यादि प्रथमोऽतिचारः । तथा रह एकान्तस्तत्र भवं रहस्यम् । रहस्येनाभ्याख्यानमभिशंसनमसदध्यारोपणं रहस्याभ्याख्यानम् । यथा यदि जरति स्त्री ततस्तां प्रति ब्रूते - तवायं पतिस्तरुण्यामन्यस्यामतिप्रसक्तोऽस्ति । अथ युवती योषित् ततस्तामाह - यथाऽयं ते रमणः प्रौढचेष्टितायां मध्यमवयसि योषिति स्थिरानुराग इत्यादि हास्यक्रीडादिना वदतः स्यात् । अभिनिवेशाञ्च जल्पतो व्रतभङ्ग एव । यदाह -
सहसब्भक्खाणाई जाणंतो जइ करिज तो भंगो ।
जइ पुणऽणाभोगाईहिंतो तो होइ अइयारु त्ति ।।१।।। द्वितीयोऽतिचारः । तथा स्वदाराः प्रणयिनी, उपलक्षणं चैतत् विश्वस्तमित्रादीनां, तेषां मन्त्रोऽषडक्षीणं मन्त्रणं तस्य भेदः प्रकटनम् । नन्वनुवादरूपत्वात् कथमस्यासत्यतेति चेत्, उच्यते, यद्यप्येवं, तथाप्युपांशुमन्त्रितार्थप्रकाशनसमुद्भूतत्रपादिना कलत्रमित्रादेर्मरणादिसम्भावनया तत्त्वतो मृषारूपत्वात्, कथञ्चिद् भङ्गरूपत्वेन तृतीयोऽतिचारः । तथा मृषोपदेशोऽसदुपदेशः । प्रतिपन्नसत्यव्रतस्य हि परपीडोपपादकं वचनमसत्यमेव । प्रमादादिना च तथा वदतोऽतीचारः । यथा वाह्यन्तां खरोष्ट्रादयो, हन्यन्तां दस्यव इति । यदि वा सन्देहापन्नेन केनचित् पृष्टस्य हास्यादिना वितथमुपदिशतो मृषोपदेशः । तथा विवादादौ परातिसन्धानाद्युपदिशतोऽपि तथा स्यादिति चतुर्थोऽतिचारः । तथा कूटमसद्भूतं तस्य लेखनं कूटलेखः । अन्यसरूपाक्षरमुद्रादिविधानम् । इह सहसभक्खाणं, रहसा य सदारमंतभेयं च । मोसोवएसयं कूडलेहकरणं च वजेजा ।।
- श्रा. ध. वि. गा. ८२ ।। (इह सहसाभ्याख्यानं, रहस्येन च स्वदारमन्त्रभेदे च । मृषोपदेश-कूटलेखकरणं च वर्जयेत् ।।)
"इह” गाहा व्याख्या - ‘इह' मृषावादविरतो सहसा अनालोच्याऽभ्याख्यानं 'सहसाभ्याख्यानं' असदध्यारोपणम् । तद्यथा - “चौरस्त्वं पारदारिको वा” इत्यादि १ । रह: - एकान्तः तत्र भवं रहस्यं, तेन तस्मिन् वाऽभ्याख्यानं रहस्याभ्याख्यानम्, एतदुक्तं भवति - एकान्ते मन्त्रयमाणानभिधत्ते, एते हीदं चेदं च राजविरुद्धादिकं मन्त्रयन्त इति २ । 'स्वदारमन्त्रभेदं च' स्वकलत्रविश्रब्धभाषिताऽन्यकथनं चेत्यर्थः ३ । 'मृषोपदेशं' असत्योपदेशम्, इदमेवं चैवं च ब्रूहीत्यादिलक्षणम् ४ । 'कूटलेखकरणं च' अन्यनाममुद्राक्षरबिम्बस्वरूपलेखकरणं च वर्जयेत् ५ । यत एतानि समाचरन्नतिचरति द्वितीयाणुव्रतम् ।। - श्रा. ध. वि. गा. ८२ वृत्तौ ।। मिथ्योपदेश - रहस्याभ्याख्यान - कूटलेखक्रिया - न्यासापहार - साकारमन्त्रभेदाः ।। - तत्त्वा. सू. ७/२१ ।। मिथ्योपदेश-रहस्याभ्याख्यान-कूटलेखक्रिया-न्यासापहार-स्वदारमन्त्रभेदाः धर्म बि. अ. ३/२४ ।। सहस्सा रहस्स दारे, मोसुवएसे अ कूडलेहे अ । बीयं वयस्सइआरे, पडिक्कमे देसि सव्वं ।। - श्रा. प्र. वृ. गा. १२ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org