________________
हितोपदेशः । गाथा - ४१७ - द्वितीयाणुव्रतातिचाराः ||
अलीकं स्थूलासत्यरूपं पञ्चविकल्पम् । पञ्चभेदं तानेवाह - कन्याविषयमलीकं कन्यालीकम् । भिन्नकन्यामभिन्नां विनिमयं वा वदतो भवति । इदं च सर्वस्य द्विपदविषयालीकस्योपलक्षणम् । गवालीकमल्पक्षीरां बहुक्षीरां विपर्ययं वा जल्पतः स्यात् । इदमपि सर्वचतुष्पदविषयालीकस्योपलक्षणम् । भूम्यलीकं परसत्कामात्मादिसत्कां विपर्ययं वा वदतः । इदं चाशेषपाद - पाद्यपदद्रव्यगोचरालीकोपलक्षणम् । अथ द्विपदादिग्रहणमेव साक्षात् कस्मान्न कृतमिति चेत्, उच्यते । कन्याद्यलीकानां लोकेऽतिगर्हिततमत्वेन प्रसिद्धत्वादिति । तथा न्यस्यते रक्षणार्थमन्यस्मै समर्प्यत इति न्यासः सुवर्णादिस्तस्यापहरणमपह्नवस्तद्वचनमपि स्थूलालीकम् । कूटसाक्ष्यं च विवादे प्रमाणीकृतस्य लञ्चामत्सरादिना कूटं वदतः यथाऽहमत्र साक्षीति । एतानि च पञ्चापि क्लिष्टाशयसमुद्भूतत्वेन स्थूलासत्यान्यतस्त्याज्यानि । अत्र च द्वितीयाणुव्रते अमूनतीचारांस्त्यज
।।४१६।।
'तानेवाह -
सहसा अब्भक्खाणं, रहसा य सदारमंतभेयं च । मोसोवएसणं कूडलेहकरणं च निचं पि । । ४१७ ।।
थूलमूसावायस्स य, विरई सो पंचहा समासेण कण्णागोभूमालियनासहरणकूडसक्खिजे ।।
- श्रा. ध. वि. प्र. गा. ८१ ।। (स्थूलमृषावादस्य च विरतिः स पञ्चधा समासेन । कन्यागौभूम्यलीकन्यासहरणकूटसाक्षित्वे ।।) "थूल" गाहा व्याख्या स्थूलमृषावादस्य च विरतिर्द्वितीयमणुव्रतं भवतीति गम्यते । तत्र द्विविधो मृषावादः स्थूलः सूक्ष्मश्च । तत्र परिस्थूरवस्तुविषयोऽतिदुष्टविवक्षासमुद्भवः स्थूलः, विपरीतस्त्वितरः, न च तेनेह प्रयोजनम्, श्रावकधर्माधिकारात् स्थूलस्य प्रक्रान्तत्वात् । तथा चाह - 'स पञ्चधा मृषावादः पञ्चधा - पञ्चप्रकारः, 'समासेन' संक्षेपेण, शेषभेदानां कुमारानृतादीनां सजातीयत्वेनात्रैवान्तर्भाव इति हृदयम् । पञ्चविधत्वमाह 'कन्यागौभूम्यलीकन्यासहरणकूटसाक्षित्वे' इति, अलीकशब्दः प्रत्येकं कन्यादिपदेषु योजनीयः, तद्यथा कन्यालीकमित्यादि, “इत् पानीयादिषु" इत्यलीकशब्द - ईत इदादेशः । तत्र कन्याविषयमलीकमभिन्नकन्यामितरां वक्ति विपर्ययं वा १ । एवं गवालीकमपि, अल्पक्षीरां बहुक्षीरां विपर्ययं वा वक्ति २ । भूम्यलीकं तु परसत्कामेवात्मसत्कां वक्ति । व्यवहारे वा नियुक्तोऽनाभवद्व्यवहारेणैव कस्यचिदेकस्य रागाद्यभिभूतो वक्ति, अस्यैवेदमाभवतीति ३ । न्यस्यत इति न्यासः - रूपकाद्यर्पणं तस्य हरणं, येन वचनेन न्यासमपलपति स मृषावादः, तद्ग्रहणं त्वदत्तादानमेवेति भावः ४ । कूटसाक्षित्वं तूत्कोचामत्सराद्यभिभूतः प्रमाणीकृतः सन् कूटं वक्ति, यथाऽस्म्यहमत्र साक्षी ५ । २ ।।
- श्री. ध. वि. प्र. गा. ८१ वृत्तौ ।।
-
गाथा - ४१७ 1. तुला - अतिचारानाह
Jain Education International 2010_02
३८५
For Private & Personal Use Only
www.jainelibrary.org