________________
द्रव्य जोड़ने से नहीं बढ़ता खर्च करने से बढ़ता है।
स्वक रूप सहज सिद्धो विभाव गुण मुक्त कर्म व्यापारः । अन्यो न मम शरणं स एकः परमात्मा ॥४१॥ शून्यो नै वा शून्यो नो कर्म कर्म वजितं ज्ञानम् । अन्यो न मम शरणं शरणं स एकः परमात्मा ॥४२॥
ज्ञानतो यो न भिन्नः विकल्पभिन्नः स्वभावसुखमयः। अन्यो न मम शरणं शरणं स एकः परमात्मा ॥४३॥ अच्छिन्नोऽवच्छिनः प्रमेयरूपत्वं अगुरुलघुत्वं चैव ।
अन्यो न मम शरणं शरणं स एकः परमात्मा ॥४४॥ शुभा शुभ भाव विगतः शुद्ध स्वभावेन तन्मयं प्राप्तः। अन्यो न मम शरणं शरणं स एकः परमात्मा ॥४५॥ न स्त्री न नपुंसको न पुमान् “णेव पुण्ण याव मओ"। अन्यो न मम शरणं शरणं स एकः परमात्मा ॥४६॥
तव को न भवति स्वजनः त्वं कस्य न बंधुः सुजनो वा। अत्मा भवेत् आत्मा एकाकी ज्ञायकः शुद्धः ।।४७॥ जिनदेवो भवतु सदा मतिः सुजिनशासने सदा भवतु ।
सन्यासेन च मरणं भवे भवे मम सम्पत् ॥४८॥ जिनो देवो जिनो देवो जिनो देवो जिनो जिनः। दयाधर्मो दयाधर्मो दयाधर्मो दया सदा ॥४६॥ महासाधवः महासाधवः महासाधवो दिगंबराः । एवं तत्त्वं सदा भवतु यावन्न मुक्ति संगमः ॥५०॥
एव मेव गतः कालोऽनन्तो हि दुःखसंगमे । जिनोपदिष्ट सन्यासे न यत्नारोहणा कृता ॥५१॥ सम्प्रति एव सम्प्राप्ताराधना जिनदेशिता ।
का का न जायते मम सिद्धि सन्दोह सम्पत्तिः ॥५२॥ अहो धर्मः अहो धर्मः अहो मे लब्धिनिर्मला । संजाता सम्पत् सारा येन सुखं अनुपमम् ॥५३॥ एवमाराधयन् आलोचना वंदना प्रतिक्रमणानि । प्राप्नाति फलं च तेषां निर्दिष्टम जित ब्रह्मणा ॥५४॥
- इति कल्याणालोचना। - [६०]