Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 316
________________ २८२ अष्टसहस्त्रीतात्पर्यविवरणम् यदभावे हि नियमतः कार्यस्योत्पत्तिः स प्रागभावः, यद्भावे च कार्यस्य नियता विपत्तिः स प्रध्वंसः । न चेतरेतराभावस्याभावे भावे च कार्यस्योत्पत्तिर्विपत्तिर्वा, जलस्याभावेऽप्यनलस्यानुत्पत्तेः क्वचित्तद्भावे च तस्याविपत्तेः । क्वचिदन्धकारस्याभावे रूपज्ञानोत्पत्तेः स प्रागभावस्तस्य स्यादिति न मन्तव्यं, नियमग्रहणात् केषाञ्चिदन्धकारेऽपि रूपज्ञानोत्पत्तेः । तत एव नान्धकारं रूपज्ञानस्य प्रध्वंस:, तद्भावे नियमतस्तद्विपत्यप्रतीतेः । ततः सूक्तम् अन्यापोहलक्षणं 'स्वभावान्तरात्स्वभावव्यावृत्तिरन्यापोह' इति, तस्य कालत्रयापेक्षेऽत्यन्ताभावेऽप्यभावादतिव्याप्त्ययोगात् । न हि घटपटयोरितरेतराभावः कालत्रयापेक्षः, कदाचित्पटस्यापि घटत्वपरिणामसम्भवात्, तथा परिणामकारणसाकल्ये तदविरोधात्, पुद्गलपरिणामानियमदर्शनात् । न चैवं चेतनाचेतनयोः कदाचित्तादात्म्यपरिणामः, तत्त्वविरोधात् । – अष्टसहस्रीतात्पर्यविवरणम् वच्छिन्नभेदेऽपि तद्रव्यत्वावच्छिन्नभेदाभावश्रयणाद्वेति बोध्यम् । उपाध्यसाङ्कर्यमेव प्रदर्शयति-यदभावे हीत्यादि । नियमग्रहणादिति न च एवं सिद्ध्यभावे नियमतोऽनुमित्युत्पत्तेः सिद्धेनुमितिप्रागभावत्वप्रसङ्ग इति वाच्यम् । पूर्वपरिणामान्तर्भावेनेष्टत्वात्, अनुमितेरपि सिद्धित्वेन सिद्ध्यभावत्वेनानुमितिनिरूपितस्य कालिकव्याप्तिघटितनियमस्याभावाच्च । न हि घटपटयोरित्यादि, ननु एवं जीवेऽजीवभेदे कालत्रयापेक्षेऽत्यन्ताभाव लक्षणातिव्याप्तिः, न च सोऽत्यन्ताभाव एव, प्रतीतिवैलक्षण्यात्, नञाऽत्यन्ताभावबोधनेऽनुयोगिवाचकपदे सप्तम्या अन्योन्याभावबोधने च प्रतियोग्यनुयोगिवाचकपदयोः समानविभक्तित्वस्य तन्त्रत्वाच्चात्यन्ताभावत्वादिना बोधने तथाव्युत्पत्तेराश्रयणेऽपि तथालक्षणस्यावश्यमृग्यत्वाच्चेति चेत्, सत्यम्, त्रैकालिकी तादात्म्यपरिणामनिवृत्तिरत्यन्ताभावः [ ] इत्यत्र परिणामपदमहिम्ना धर्मत्वनियामकसम्बन्धबोधात्तृतीयातत्पुरुषाश्रयणाच्च संसर्गावच्छिन्नप्रतियोगिताकाभावत्वमत्यन्ताभावत्वमिति तात्पर्यात् । इत्थं चान्योन्याभावलक्षणस्य तादात्म्यावच्छिन्नप्रतियोगिताकाभावत्वस्यैव लाभान्न दोषः । तत्त्वं क्लुप्ताधिकरणेऽतिरिक्तपदार्थे वेति पुनरन्यदेतत्, संयोगितादात्म्यस्यैव संयोगत्वे च 'तादात्म्यत्वावच्छिन्नावच्छेदकताकप्रतियोगिताकाभावत्वमन्योन्याभावत्वम्,' 'तदितराभावत्वं संसर्गाभावत्वम्' इति वदन्ति । Tतादात्म्यत्वस्यातिरिक्तस्य कल्पनायां गौरवाद्भेदत्वात्यन्ताभावत्वाद्यखण्डोपाधिरिति तु नव्याः । युक्तमेतत्, तत्तत्स्वरूपे तत्तद्भेदत्वादेर्यथाप्रतीति कल्पनाद् भावसङ्करस्येवाभावसङ्करस्याप्यदुष्टत्वात्, अभिलापभेदस्य च विवक्षावैचित्र्याद्यधीनत्वादिति दिग ।

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450