Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 396
________________ ३६२ अष्टसहस्त्रीतात्पर्यविवरणम् [पञ्चमषष्ठसप्तमभङ्गानां स्पष्टीकरणम्] (भा०) द्रव्यपर्यायौ व्यस्तसमस्तौ समाश्रित्य चरमभङ्गत्रयव्यवस्थानम् । अष्टसहस्त्रीतात्पर्यविवरणम् ॥ शक्तिवादः ॥ (२) अनुमन्यतामिति, ननु कथमेतदनुमन्तव्यम् । एकं द्विकं त्रिकं वापि चतुष्कं पञ्चकं तथा । नामार्थ इति सर्वेऽमी पक्षा: शास्त्रे निरूपिताः ॥१॥ [वैयाकरणभूषणसार: का० २५] इत्यादिनाऽनेकार्थवाचकतायाः पदानां शास्त्रसिद्धत्वात्, अत्रैकं जातिर्व्यक्तिविशिष्टं वा, द्विकं जातिव्यक्ती, त्रिकं लिङ्गसहिते ते, लिङ्गस्य शब्दधर्मस्यापि व्युत्पत्तिविशेषादुपचारेणार्थेऽन्वयः, चतुष्कं सङ्ख्यासहितानि तानि, पञ्चकं कारकसहितानि तानि । न च अन्वयव्यतिरेकाभ्यां लिङ्गादेः प्रत्ययवाच्यत्वमेव युक्तम्, तत एव तदुपस्थितौ प्रकृतिवाच्यत्वे मानाभावादिति शङ्कनीयम् । प्रत्ययवजिते दधि पश्येत्यादौ प्रत्ययमजानतोऽपि लिङ्गादिबोधात् प्रकृतेरेव तद्वाचकत्वकल्पनात्, तथा लिङ्गानुशासनदर्शनाच्चेति चेत्, मैवम्, अव्यवस्थितत्वेनैतेषु पक्षेषु निर्बन्धस्य कर्तुमशक्यत्वात्, लिङ्गादेः प्रत्ययवाच्यत्वस्यापि शास्त्रसिद्धत्वात्, इत्थमेव द्योतिका वाचिका वा स्युत्विादीनां विभक्तयः । इति [वा०प०काण्ड २-१६४] पक्षद्वयव्युत्पादकवाक्यपदीयोपपत्तेः, इत्थं चैतदर्थपञ्चकमध्ये प्राधान्यमेकदैकस्यैवेति पदानां प्रधानैकार्थतानियमाव्याहतेरिति दिग् । ननु तथापि यथा पुष्पदन्तपदेन चन्द्रसूर्ययोः प्राधान्येनोपस्थितिस्तथा केनचित्पदेन सदसतोरपि स्यादित्यवक्तव्यत्वं नानुमंस्यत इति चेत्, मैवम्, पुष्पदन्तौ पुष्पवन्तावेकोक्त्या शशिभास्करौ इति [अभिधानचिन्तामणिः देवकाण्ड-३८] कोशस्वरसादेकोच्चारणान्तर्भावेन गृहीतनानार्थशक्तिकपुष्पदन्तादिपदे व्युत्पत्तिवैचित्र्यात्, अत्र पुष्पदन्तादिपदं चन्द्रे सूर्ये च शक्तमित्याकारकः शक्तिग्रहः, तत्कार्यतावच्छेदकं च चन्द्रत्वप्रकारकत्वे सति सूर्यत्वप्रकारकस्मृतित्वम्, तादृशशाब्दत्वं च चन्द्रसूर्योभयनिष्ठाया एकस्याः शक्तेश्चन्द्रत्वसूर्यत्वयोर्व्यासज्यवृत्त्यवच्छेदकतास्वीकारात् । अत एवैकत्रायोग्यताज्ञाने शक्त्या न बोधः, किन्तु लक्षणयेति नैयायिकसम्प्रदायः । वस्तुतः पुष्पदन्तादिपदज्ञानाधीननानार्थानुभवे एकमात्रानुभवे वा तत्पदज्ञाने नानार्थानुभवजनननियमनिश्चयः कारणं प्रतिबन्धकं वा, अत

Loading...

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450