Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 447
________________ प्रथमो भागः [ परि० १-का. २३] ४१३ (भा०) यद्यपि ते विशेषाः परस्परव्यावृत्तपरिणामाः कालादिभेदेऽपि सद्रूपाविशिष्टाश्चित्रज्ञाननीलादिनिर्भासवत् । यथा हि चित्रप्रतिभासाप्येकैव बुद्धिः, बाह्यचित्रविलक्षणत्वात् । शक्यविवेचनं हि बाह्यचित्रमशक्यविवेचनाश्च बुद्धिर्नीलाद्याकारा इति चित्रज्ञानमशक्यविवेचनं नीलादिनिर्भासभेदेऽप्येकमिष्यते तथा जीवादिविशेषभेदेऽप्येकं सद्रव्यं, कालभेदेऽपि सद्रूपादशक्यविवेचनत्वात्, देशभेदेऽपि वा ततस्तेषां विवेचयितुमशक्तेराकारभेदवत्, ततस्तेषां कदाचित्क्वचित्कथञ्चिदपि विवेचने स्वरूपाभावप्रसङ्गात् । सामान्यविशेषसमवायवत्प्रागभावादिवद्वा सद्रूपाद्विवेचनेऽपि जीवादीनां नाभाव इति चेत्, न तेषामपि सद्विवर्तत्वात् सद्रूपविवेचनासिद्धेरन्यथा प्रमेयत्वायोगादवस्तुत्वप्रसक्तेः सर्वथा सत्त्वाद्भिन्नस्यासत्त्वनिर्णयात् । ततो जीवादिविशेषाः कालादिभेदेऽपि स्यादेकं द्रव्यं, सद्रूपाविशिष्टत्वान्नीलादिनिर्भासभेदेऽपि ज्ञानरूपाविशिष्टत्वादेकचित्रज्ञानवत् । इति प्रथमो भङ्गः । [द्वितीयं भङ्गं विशेषेण वर्णयन्त्याचार्याः] तथा जीवादिविशेषाः, (भा०) स्यादनेकत्वमास्कन्दन्ति भेदेन दर्शनात् सङ्ख्यासङ्ख्यावदर्थवत् । अष्टसहस्रीतात्पर्यविवरणम् टीकायामस्माभिः । कथञ्चिद्विशिष्टप्रतिभासात् बौद्धेकत्वानुविद्धभेदप्रतिभासादित्यर्थः । विशिष्यत इति विशिष्टं भेदः, उक्तमेव कथञ्चित्प्रतिभासं भाष्येण समर्थयन्नाह-यद्यपीति यद्यपीत्युक्तेः कालादिभेदेऽपीत्यत्र तथापीति गम्यम् । बाह्यचित्रविलक्षणत्वात् = ग्राह्यनानारूपभिन्नत्वात्, शक्यविवेचनं हीति भिन्नर्मिकत्वादेकत्रापि च धर्मिणि स्फुटावच्छेदकभेदादित्यर्थः । अशक्यविवेचनाश्चेति अस्फुटावच्छेदकत्वादित्यर्थः । विवेचने सत्त्वात् पृथक्कृत्य विवक्षणे, सामान्येति पराभिमतसामान्यादिवदित्यर्थः । यथा हि पराभिमतः सामान्यादिपदार्थः सत्त्वाभावान्निःस्वरूपस्तथा सत्त्वाद्विविक्तो जीवादिः स्यादिति तत्त्वम् । सद्विवर्त्तत्वात् सद्विशेषत्वात्, विशेषे च सर्वथा सामान्यभेद

Loading...

Page Navigation
1 ... 445 446 447 448 449 450