Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 445
________________ प्रथमो भागः [ परि० १ - का० २३] ४११ तदव्यवस्था स्वर्गप्रापणशक्त्यादिवद्वेद्याकारविवेकवद्वा । स्वरूपस्य स्वतो गतिरित्यपि तथा निश्चयानुत्पत्तौ न सिद्धयेद् ब्रह्माद्वैतादिवत् । ततः कुतश्चिन्निश्चयाद्वस्तुस्वभावभेदव्यवस्थायां सत्त्वादिनिश्चयाद्वस्तुनि परमार्थतः सत्त्वादिधर्मभेदव्यवस्थितिरभ्युपगन्तव्या, अन्यथा क्वचिदपि व्यवस्थानासिद्धेः । परमार्थतः सत्त्वादिधर्मव्यवस्थितौ च सत्यां साधीयसी सत्त्वादिसप्तभङ्गी, सुनयार्पितत्वात् ॥२२॥ सम्प्रत्येकानेकत्वादिसप्तभङ्गयामपि तामेव प्रक्रियामतिदिशन्तः सूरयः प्राहु: एकानेकविकल्पादावुत्तरत्रापि योजयेत् । प्रक्रियां भङ्गिनीमेनां नयैर्नयविशारदः ॥२३॥ स्यादेकमेव स्यादनेकमेवेति विकल्प आदिर्यस्य स एकानेकविकल्पादिः । तस्मिन्नुत्तरत्रापि स्याद्वादविशेषविचारेऽपि प्रक्रियामेनामन्वादिष्टां भङ्गिनीं सप्तभङ्गाश्रयां नयैर्यथोचितस्वरूपैर्योजयेत् युक्तां प्रतिपादयेन्नयविशारदः स्याद्वादी, ततोऽन्यस्य तद्योजनेऽनधिकारात् । [एकानेकादौ सप्तभङ्गौँ ब्रुबन्तो जैनाचार्याः प्रथमभङ्गं सयुक्तिकं स्पष्टयन्ति] तद्यथा (भा०) स्यादेकं सद्द्द्रव्यनयापेक्षया । न हि सत्पर्यायनयापेक्षया सर्वथा वा सर्वमेकमेवेति युक्तं, प्रमाणविरोधात् । ननु च सद्द्रव्यनयार्पणादपि जीवादिद्रव्यमेकैकश एवैकं सिद्धयेत्, न तु नानाद्रव्यं, प्रतीतिविरोधात्, तत्रैकत्वप्रत्यभिज्ञानाभावात् सर्वत्रैकत्वस्य तन्मात्रसाध्यत्वादन्यथातिप्रसङ्गादिति कश्चित् । तं प्रत्येके समादधते 'सदेव द्रव्यं सद्द्रव्यम् । तद्विषयो नयः सङ्ग्रहः परमः । तदपेक्षया सर्वस्यैकत्ववचनाददोष:' इति । अपरे तु 'सद्रव्यमेव अष्टसहस्त्रीतात्पर्यविवरणम् स्वसंवेदनत्वप्रकारकनिश्चयस्याप्यदृष्टासद्विषयकत्वसम्भावनादित्यर्थः । तदनुत्पत्तौ सुतरामिति स्वसंवेदनत्वप्रकारकनिश्चयाभावे तदंशे दर्शनाप्रामाण्यस्य स्फुटत्वादिति भावः । तदाहस्वर्गप्रापणेत्यादि ॥२२॥ परम इति परैर्ज्ञानिभिर्मीयत इति परमः सर्वशुद्ध इति यावत् । तदपेक्षयेति तथा च व्यवहारैकत्वस्य प्रत्यभिज्ञामात्रप्रमाणकत्वेऽपि तदभावेऽपि सङ्ग्रहबुद्धिकृतस्य सर्वद्रव्य

Loading...

Page Navigation
1 ... 443 444 445 446 447 448 449 450