Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 449
________________ ४१५ प्रथमो भागः [परि० १-का. २३] तदेवं सर्वं सिद्धं स्यादनेकम् । इति द्वितीयो भङ्गः । [जैनाचार्यास्तृतीयादिशेषभङ्गानपि स्पष्टयन्ति] क्रमार्पितद्वयात् स्यादुभयम् (३) । सहावक्तव्यं, वक्तुमशक्तेः (४) । स्यादेकावक्तव्यं, स्वलक्षणस्यैकस्य वक्तुमशक्यत्वात् (५) । स्यादनेकावक्तव्यं, तस्यानेकस्यापि वक्तुमशक्तेः (६) । तत एव स्यादुभयावक्तव्यम् (७) । इति सप्तभङ्गीप्रक्रियायोजनमतिदेशवचनसामर्थ्यादवसीयते । तत एव चैकत्वमेकर्मिणि स्वप्रतिषेध्येनानेकत्वेनाविनाभावि, विशेषणत्वाद्वैधाविनाभाविसाधर्म्यवद्धतौ । अनेकत्वं स्वप्रतिषेध्येनैकत्वेनाविनाभावि, विशेषणत्वात् साधाविनाभाविवैधर्म्यवद्धतौ । एवं तदुभयादयोऽपि स्वप्रतिषेध्येनाविनाभाविनो विशेषणत्वाद्विशेष्यत्वाच्छब्दगोचरत्वाद्वस्तुत्वाद्वा स्वसाध्येतरापेक्षया हेत्वहेत्वात्मकसाधनधर्मवदित्यपि नययोजनमविरुद्धमवबोद्धव्यम् । विशेषणत्वादेः साधनधर्मस्यापि स्वविशेष्यापेक्षया विशेषणस्य स्वप्रतिषेध्येनाविनाभावित्वसिद्धेर्न तेन विशेषणत्वादिहेतोर्व्यभिचारः । नापि विशेष्यत्वस्य, स्वविशेषणापेक्षया विशेष्यस्यापि स्वप्रतिषेध्येनाविनाभावित्वात् । शब्दगोचरत्वस्य च शब्दान्तरागोचरस्य स्वप्रतिषेध्येनाविनाभावित्वात्, वस्तुत्वधर्मस्य च वस्त्वंशत्वेन वस्तुत्वरूपस्य तत एव व्यभिचारित्वाशङ्कापि न कर्तव्या, अनेकान्तवादिनां तथाप्रतीतेविरोधाभावात् । एवमेकत्वाने कत्वाभ्यामनवस्थितं सप्तभङ्गयामारूढं जीवादिवस्तु, कार्यकारित्वान्यथानुपपत्तेः । सर्वथैकान्ते क्रमाक्रमाभ्यामर्थक्रियाविरोधादित्याद्यपि अष्टसहस्त्रीतात्पर्यविवरणम् क्रमार्पितद्वयात् स्यादुभयमित्यादि भङ्गयोजनं प्राग्वदुपयुज्य विधेयमिति श्रेयः ॥२३॥

Loading...

Page Navigation
1 ... 447 448 449 450