Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 443
________________ ४०९ प्रथमो भागः [परि०१-का. २२] निश्चितानिश्चितयोरेकस्वभावत्वे सर्वथातिप्रसङ्गात् । । [यद्यपि वस्तुनि स्वतः स्वभावभेदो नास्ति तथापि विजातीयभेदात्स्वभावभेदो भवेदिति बौद्धस्यारेकायां समादधते आचार्या:] (भा०) सदुत्पत्तिकृतकत्वादेः प्रत्यनीकस्वभावविशेषाभावाद् यावन्ति पररूपाणि तावन्त्यस्ततस्ततो व्यावृत्तयः प्रत्येकमित्येषापि कल्पना मा भूत् । न हि किञ्चिदसदनुत्पत्तिमदकृतकादि वा वस्तुभूतमस्ति सौगतप्रसिद्ध पररूपं यतो व्यावृत्तं परमार्थतोऽस्वभावभेदमपि शब्दादिस्वलक्षणं सदुत्पत्तिकृतकत्वादिस्वभावभेदवत्परिकल्प्यते । पराभ्युपगमात्सिद्धमस्तीति चेत्, न तस्याप्रमाणसिद्धत्वात् । कल्पनारोपितं तदस्तीति चेत्, कुतस्तत्कल्पनाप्रसूतिः ? अनाद्यविद्योदयादिति चेत्, तत एव सत्त्वादिधर्मकल्पनास्तु, किमसत्त्वादिव्यावृत्त्या ? । [व्यावृत्तिकल्पनया सदकृतकादयः सन्तीति बौद्धमान्यतायां विचार:] सदेव किञ्चिद्गुणीभूतविधिस्वभावं निषेधप्राधान्यादसदुच्यते, सदन्तरविविक्तस्य सत एवासत्त्वव्यपदेशात् । तथोत्पत्तिमदन्तरविविक्त मुत्पत्तिमदेव किञ्चिदनुत्पत्तिमत्, कृतकान्तरविविक्तं कृतकमेवाकृतकं, वस्त्वन्तरविविक्तं वस्त्वेवावस्तु व्यवहृतिपथमुन्नीयते इति चेत्, न, परमार्थतः सत्त्वादिवस्तुस्वभावभेदप्रसिद्धः, नि:स्वभावभेदवस्तुरूपाभ्युपगमविरोधात् । अष्टसहस्त्रीतात्पर्यविवरणम् भेदनियतत्वादिति भावः । यद्यपि पदार्थस्य स्वतः स्वभावातिशयो नास्ति तथापि विजातीयभेदात् स्वभावातिशयो भविष्यतीत्याशङ्कायामाह भाष्यकृत्-सदुत्पत्तीत्यादि । तत एवेति असत्त्वादिव्यावृत्त्यपेक्षया लाघवात् सत्त्वादेरेवाविद्याविशेषजन्यत्वकल्पनौचित्यादिति भावः । अत एव त्रिविधं सत्त्वमौपनिषदानामिष्टमिति मन्तव्यम् । यदि च तत्त्वज्ञानदशायामपि सत्त्वाद्यनुभवान्न तस्याऽविद्यकत्वम्, तदा अस्तु प्रमाणसिद्ध एवानन्तगुणात्मकस्वभावभेदो धर्मिणः, तत्त्वज्ञानिभिस्तथानुभवादिति बोध्यम् । सदन्तरेति सदन्तरं यद् घटवद्भूतलं ततो विविक्तस्य, केवलस्य भूतलस्य, असत्त्वव्यपदेशात् घटाभावत्वेन व्यवहारादित्यर्थः, तथा च शब्दाद्यात्मनानुत्पत्तिमद् घटादि प्रसिद्धं तद्व्यावृत्त्योत्पत्तिमत्त्वं शब्दे सुवचमिति भावः । एवमग्रेऽप्यतव्यावृत्तिप्रसिद्धिर्विशेषादेशेन वाच्या । नि:स्वभावेति निषेधस्य विध्यवच्छिन्नत्वाद्विधिस्वभावभेदाभावे निषेधस्वभावभेदस्य दुरापास्तत्वादिति

Loading...

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450