Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 446
________________ ४१२ अष्टसहस्त्रीतात्पर्यविवरणम् नयः, नीयमानत्वाद्धेतोः, तदपेक्षया सर्वमेकं, जीवादीनां षण्णां तद्भेदप्रभेदानां चानन्तानन्तानां तत्पर्यायत्वात् ‘एकं द्रव्यमनन्तपर्यायम्' [ ] इति सङ्क्षपतस्तत्त्वोपदेशात्, तस्य सर्वत्र सर्वदा विच्छेदानुपलक्षणात् प्रतीतिविरोधाभावादेकत्वप्रत्यभिज्ञानस्यापि सदेवेदमित्यबाधितस्य सर्वत्र भावात्, अभावस्यापि तत्पर्यायत्वान्न किञ्चिद् दूषणम्' इति समाचक्षते ।। [जीवादिविशेषाः परस्परभिन्नस्वभावाः कथमेकं द्रव्यमित्यारेकायां समाधानम्] ननु च जीवादयो विशेषाः परस्परं व्यावृत्तविवर्त्ताः कथमेकं द्रव्यं विरोधादिति चेत्, न कथञ्चिदेकत्वेन विरोधाभावात् कथञ्चिद्विशिष्टप्रतिभासात् । अष्टसहस्त्रीतात्पर्यविवरणम् गतैकत्वस्य न दुष्टत्वमित्युक्तं भवति । अत्र च व्यवहाररूपापेक्षाधीकृतमेकत्वं तद्व्यक्तित्वावच्छिन्नम्, सङ्ग्रहकृतं च तवृत्तिजात्यवच्छिन्नम्, प्रतियोग्यनुयोगिवाचकपदसत्त्वेऽन्यथा च शुद्धं सामान्यधर्मिणि प्रतीयते, 'सोऽयं' 'तज्जातीयोऽयं' 'सर्वो घट एकः' सर्वमेकं' इत्यादिप्रयोगादिति विवेकः । अथ सङ्ग्रहबुद्धिकृतमेकत्वं कथं सङ्ग्रहबुद्धेविषयः स्यादिति चेद्, अनादित्वेनायं दोषः परिहरणीयः । पूर्वपूर्वसङ्ग्रहबुद्धिकृतस्यैकत्वस्योत्तरोत्तरसङ्ग्रहबुद्ध्या विषयीकरणसम्भवात्, द्वित्वादिवदस्यैकत्वस्यापेक्षाबुद्धिव्यङ्ग्यत्वपक्षे तु नात्राशङ्कापदप्रसरोऽपि, ग्यथा चैकत्वद्वित्वादेः कथञ्चिदपेक्षाबुद्धेर्व्यङ्ग्यत्वं जन्यत्वं च तथा व्यवस्थापितमस्माभिर्नयामृततरङ्गिण्यां महता प्रबन्धेनेति तत एव तदवगन्तव्यम् । अपरे त्विति न परेऽपरे सङ्ग्रहनयमवलम्ब्यातिपरिणामेन प्रवृत्ता वेदान्तिन इत्यर्थः । तन्मत एव सकलभेदप्रपञ्चस्य बाधावधीभूतसद्ब्रह्मोपादानकत्वादिति ध्येयम् । स्याद्वादावष्टम्भे पुनरेतन्मतं न क्षोदक्षमम्, जीवादिभेदानां त्रैलक्षण्यान्वितत्वेन कथञ्चित्कार्यत्वे तदुपादाने सतीष्यमाणे तदन्तर्भावेनापि कार्यत्वस्य सदन्तरोपादानत्वस्य च कल्पनायामनवस्थाप्रसङ्गादूर्ध्वतासामान्यस्यैकस्य खण्डशो भावेऽपि व्याप्त्या तदयोगात्, अन्यथा तस्य जीवाजीवोभयात्मकत्वेन तृतीयराशिप्रसङ्गात् । यदि चेदमेकत्वं न द्रव्यत्वापादकं किन्तु सर्वाधारत्वापादकमिति नोक्तदोष इति विभाव्यते, तदा प्राचीनमतस्यैवायं पुनः प्रसवः, बुद्धिप्रत्यासत्त्या नगरादिवदेकत्वेन विवक्षितस्य सद्रव्यस्य जीवादिभेदाधिष्ठानत्वोपपादनात्, एवं सत्यनपेक्षितद्रव्यार्थिकनयाभिमतं वर्तनाहेतुः कालाख्यमेव सद्रव्यमुपतिष्ठते । युक्तं चैतत, कालस्वरूपेश्वरवादिनये सकलभेदोपादानत्वेन कालस्वरूपस्य सदद्रव्यस्येश्वरत्वोक्तौ सकलनयमये भगवत्प्रवचने दोषाभावात्, विवेचितं चैतत्तत्त्वं तर्कानुसारिण्यां तत्त्वार्थ

Loading...

Page Navigation
1 ... 444 445 446 447 448 449 450