Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 430
________________ ३९६ अष्टसहस्त्रीतात्पर्यविवरणम् सकलबाधकवैधुर्यात् । [विधिनिषेधयोधर्मी कः इत्यादिप्रश्ने सति विचारः क्रियते जैनाचार्यैः] कः पुनर्विधेयप्रतिषेध्ययोधर्मी स्यादाश्रयभूतः कश्च तयोस्तेन सम्बन्धो येन विशेषणविशेष्यभावः स्याद् इति चेद, उच्यते, (भा० ) अस्तित्वनास्तित्वयोधर्मि सामान्यम् । तत्र तादात्म्यलक्षणः सम्बन्धः, सम्बन्धान्तरकल्पनायामनवस्थाप्रसङ्गात् । तन्नैतत्सारं जात्यादिमतामेतन्न सम्भवत्येवेति, तदभावे एवासम्भवात् । विशेषणविशिष्टवस्तुग्रहणस्य विशेषणं सत्त्वादिसामान्यं पूर्वं गृहीत्वा तदनन्तरं विशेष्यं गृह्णाति, ततस्तत्सम्बन्धं समवायं लोक स्थितिं च विशेषणविशेष्यव्यवहारनिबन्धनां, ततस्तत्सङ्कलनेन सदिदं वस्तु इति प्रतीतिक्रमस्यैव दुर्घटत्वात्, विशेषणविशेष्यात्मकस्य सामान्यविशेषरूपस्य वस्तुनो जात्यन्तरस्य यथाक्षयोपशमं प्रत्यक्षे परोक्षे च विज्ञाने निर्बाधमनुभवात्तद्विपरीतस्य जातुचिदप्रतीतेः । (भा० ) तथा सति नैकान्तेन दर्शनविकल्पाभिधानानां विषयभेदोऽस्ति कथञ्चित्प्रतिभासभेदेऽपि प्रत्यासन्नेतरपुरुषदर्शनवत् । प्रतिभासभेदाद्विषयभेदे योगीतरप्रत्यक्षयोरेकविषययोरपि विभिन्नविषयत्व - अष्टसहस्त्रीतात्पर्यविवरणम् दित्यर्थः, तस्य स्वलक्षणस्य, भेदाभावे विशेषणोपरागाभावे, सामान्यम्=ऊर्ध्वतासामान्यं विशेषादेशे घटादिद्रव्यम्, एतत् = प्रत्यक्षेण ग्रहणम्, असम्भवादित्यस्य ग्रहणस्येत्यनेनान्वयः । इति प्रतीतिक्रमस्यैवेति सौगतायुक्तस्येति गम्यम्, निर्बाधम् इत्यनन्तरमादित एवेति शेषः । तद्विपरीतस्य=विशेषणविशेष्यभावादिशून्यस्य, जातुचिदप्रतीतेरिति निर्विकल्पकस्य निरासादित्यर्थः, येन च तत् स्वीक्रियते तस्य सविकल्पकोत्पत्तिकाले तदापत्तिर्दुर्निवारा । न च निर्विकल्पकत्वस्य कार्यतानवच्छेदकत्वात् नैवम्, तथाऽप्यर्थवशात् तदापत्तेः, निर्विकल्पके घटत्ववद् द्रव्यत्वपृथिवीत्वसत्त्वादीनामपि सम्भृतसामग्रीकतया भानाभ्युपगमे घटसविकल्पके नियमात्तावद्धर्मभानापत्तेश्च, तत्तन्नियतप्रकारकप्रत्यक्ष एव क्षयोपशमविशेषहेतुताकल्पने तु विशेषहेत्वभावादेव न निर्विकल्पकमिति

Loading...

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450