Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 428
________________ ३९४ अष्टसहस्रीतात्पर्यविवरणम् असिद्धिरिति चेत्, न, विशेष्योऽसौ, शब्दगोचरत्वात् तद्वदित्यनुमानात्तस्य विशेष्यत्वहेतोः साधनात् । शब्दगोचरत्वमसिद्धमर्थस्येति चेत्, शब्दगोचरो जीवादिः, विशेष्यत्वात्तद्वदित्यनुमानात्तस्य साधनात् । न चैवमितरेतराश्रयदोषः, सर्वथानभिलाप्यवस्तुवादिनः प्रति शब्दगोचरत्वे साध्ये विशेष्यत्वस्य हेतुत्ववचनात्, सर्वथा वाविशेष्यत्ववादिनः प्रति शब्दगोचरत्वस्य साधनत्वाभिधानात्, तदुभयासत्त्ववादिनस्तु प्रति वस्तुत्वस्योभयप्रसिद्धस्य हेतोः सामर्थ्यतः प्रयोगात् । विधेय अष्टसहस्त्रीतात्पर्यविवरणम् विधेयः, अत एवैकावयवाद्या दशावयवान्ता जघन्यमध्यमोत्कृष्टभेदभिन्ना कथा प्रसिद्धा, तथा चास्माकमाकरग्रन्थ: लिङ्गं केवलमेव यत्र कथयन्त्येषा जघन्या कथा, द्वयादीन् यत्र निवेदयन्त्यवयवानेषा भवेन्मध्यमा । उत्कृष्टा दशभिर्भवेदवयवैः सा जल्पितैवेत्यमी, जैनैरेव विलोकिताः कृतधियां वादे त्रयः सत्पथाः ॥ इति । [ ] यदा हि प्रतिपाद्यः क्षयोपशमविशेषान्निर्णीतपक्षो गृहीतव्याप्तिकश्च भवति, तदा तं प्रति हेतुप्रतिपादनमेव कार्य, धूमोऽत्र दृश्यत इति । यदा त्वस्य नाद्यापि पक्षनिर्णयस्तदा तं प्रति पक्षोऽपि प्रयुज्यतेऽग्निरत्र धूमान्यथानुपपत्तेरिति । यः प्रतिबन्धग्राहिप्रमाणस्य न स्मरति तं प्रति दृष्टान्तोऽप्युपदिश्यतेऽग्निरत्र धूमाद्, यत्र धूमस्तत्राग्निर्यथा महानस इति । दार्टान्तिके हेतुं योजयितुमजानानं प्रत्युपनयः, एवमपि साकाङ्क्ष प्रति निगमनम् । पक्षादिस्वरूपविप्रतिपन्नं प्रति पक्षशुद्धयादयश्चेति । तत्केयं प्रक्रियाऽसाधकतानुमाने यथा विप्रतिपत्त्यवयवप्रयोगोऽन्यत्र तु पञ्चावयवप्रयोग एवेति ? प्रतिपाद्यानुरोधेनैकादिप्रयोगस्यापि सम्भवात्, अवयवान्तरैकवाक्यत्वादेस्तत्रार्थिकस्यैव सम्भवात्, पञ्चावयवैकवाक्यताया अपि यथाकथञ्चिदेव दीधित्यादावुक्तत्वात्, अवयवप्रयोगे स्याद्वादस्यैवाश्रयणीयत्वात्, तदिदमाहुः अन्यथानुपपत्त्येकलक्षणं लिङ्गमिष्यते । प्रयोगपरिपाटी तु, प्रतिपाद्यानुसारतः ॥१॥ इति [ ] समयबन्धोऽपि प्रसिद्ध्यप्रसिद्धी एवानुरुणद्धीति शिवम् । तदेवमपेक्षया गमकागमकस्यैकस्य हेतुत्वाहेतुत्ववज्जीवादेरपेक्षया सत्त्वेतरात्मकत्वं नियूंढम् । प्रकृतं प्रस्तुमः-तद्वदिति हेतुवदित्यर्थः, वस्तुत्वस्योभयप्रसिद्धस्येति विशेषण

Loading...

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450