Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 426
________________ अष्टसहस्त्रीतात्पर्यविवरणम् इत्यनुमानात् सत्वेतरात्मकः कथञ्चिज्जीवाद्यर्थः सिद्ध्यत्येव । हेतोर्विशेष्यत्वस्य अष्टसहस्त्रीतात्पर्यविवरणम् ३९२ तथा वह्नौ कूटलिङ्गव्यापकाभेदोऽपीति सानुमितिरसत्येति चेत्, न कूटलिङ्गस्यानुमितौ साध्याप्रकारकत्वेन तदभेदस्यासंसर्गत्वात्, वह्निव्याप्यालोके धूमारोपाद्यत्रानुमितिस्तत्रासिद्धभेदेऽसत्यत्वाभावापत्तेश्च, आलोकव्यापके धूमव्यापकाभेदसाम्राज्यात् । एतेन परामृश्यमानलिङ्गव्यापकाभिन्नीयत्वविशिष्टसंसर्गेण साध्यस्यानुमितौ भानाभ्युपगमेऽपि न क्षतिः । 'लिङ्गोपहितलैङ्गिकभानवादेऽपि च दैवात्तत्र धूमसत्त्वे कथं तदंशेऽप्यसत्यता, अत एवार्द्रेन्धनप्रभववह्नेरेव धूमव्यापकत्वात्तद्रूपेण वह्नेरनुमितौ भानाभ्युपगमेऽपि न कूटलिङ्गजानुमितेरसत्यत्वम्, दैवात्तत्र धूमसत्त्वेन सत्यत्वादिति चेत्, अत्र वदन्ति (१) स्वज्ञानदशायां पक्षे साध्यप्रत्ययाजनकत्वमगमकत्वम्, भवति हि विरुद्धत्वादिज्ञानकालीनं लिङ्गं पक्षे साध्यप्रत्ययाजनकम्, विरुद्धत्वादिति पक्षविशेषणमहिम्ना तद्दशायां पक्षे साध्यप्रत्ययाजनकत्वसिद्धिः, साध्यप्रत्ययाजनकत्वं=साध्यप्रत्ययजनकतावच्छेदकरूपविरहः, स च कदाचित् सत्प्रतिपक्षोत्तीर्णेऽपीति स्वज्ञानकालीनत्वं विशेषणम्, स च न तादृशोऽन्यदा तज्ज्ञानरूपविशेषणाभावेन विशिष्टाभावात्, स्वज्ञानकालस्य पक्षतावच्छेदकत्वेन साध्यमध्येऽप्रवेशाद्विरुद्धत्वादेः स्वज्ञानविरहकाले विशिष्टाभावान्न व्यभिचारित्वम् । न च कदाचिदजनकत्वादेः केवलान्वयित्वमादाय व्यर्थविशेषणता, विवक्षितसाध्यस्यासार्वत्रिकत्वात् । न च सर्वो वह्निव्याप्यवान् वह्निमान् तत्त्वादित्यनुमानेन स तदभाववान् मेयत्वादित्यादिना सत्प्रतिपक्षेण सर्वस्यैव सत्प्रतिपक्षितत्वात्तस्य सार्वत्रिकत्वमेवेति वाच्यम्। सर्वत्र सर्वस्यैवमवताराभावात् । (२) यद्वाऽनुमितिप्रतिबन्धकतावच्छेदकरूपवत्त्वं तत्, तद्वत्त्वं च तद्वर्त्तमानत्वमतो न सत्प्रतिपक्षोत्तीर्णोऽतिप्रसङ्गः, तस्यासार्वत्रिकत्वाच्च न विरुद्धत्वादौ व्यर्थविशेषणता, तच्च रूपं ज्ञाने विषयतयाऽनैकान्तिकत्वादिकमेवेत्यनुमितिप्रतिबन्धकज्ञानविषयतावच्छेदकरूपवत्त्वमगमकत्वमिति पर्यवसितोऽर्थः । न च साध्याप्रसिद्धावव्यापकमिदमिति शङ्कनीयम्, स्वज्ञानदशायामिति वचनादेव तदसद् ग्राह्यत्वलाभात्, तस्याः शुद्धापार्थकमध्ये परिगणनेन हेत्वाभासेभ्यः पृथक्करणात् । (३) नायं पन्थाः, एवं सति हेत्वाभासत्वमेवागमकत्वमित्यस्य प्राप्तेः, सोपाधिकत्वादिना ज्ञातेऽगमकत्वव्यवहारानापत्तेः, किन्तु सर्वानुगतमखण्डमेव तत्, तच्चानैकान्तिकत्वादिनानुमीयते, सत्प्रतिपक्षविषये तदुत्तीर्णे च गमकागमकत्वस्वभावभेदविरोधः स्याद्वा

Loading...

Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450