Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 437
________________ ४०३ प्रथमो भागः [परि० १-का० २१] स्याद्वादाश्रयणप्रसङ्गात्, असत्कार्यवादविरोधात् । (भा० ) ततः सूक्तं 'यदेकान्तेन सदसद्वा तन्नोत्पत्तुमर्हति, व्योमवन्ध्यासुतवत्' इति । न ह्येकान्तेन सद् व्योमोत्पद्यते, नाप्येकान्तेनासन् वन्ध्यासुत इति न साध्यसाधनविकलमुदाहरणम् । ____ (भा०) कथमिदानीमनुत्पन्नस्य गगनादेः स्थितिरिति चेत्, अनभ्युपगमात् । सर्वथा गगनाद्यनुत्पादस्य । केवलमिह व्योम्नो (भा०) द्रव्यनयापेक्षया परप्रसिद्ध्या चोदाहरणं प्रतिपादितम् । ततो न पूर्वापरविरोधः, पूर्वं सर्वथानुत्पत्तिमतः स्थितप्रतिषेधसाधनात्, द्रव्यतोऽनुत्पद्यमानस्यैव स्थितिघटनात् । [यद्वस्त्वर्थक्रियाकारि तद्विधिप्रतिषेधकल्पनया सप्तभङ्गीविधिसहितमिति समर्थयन्त्याचार्याः] ततो यदर्थक्रियाकारि तद्विधिप्रतिषेधकल्पनोपकल्पितसप्तभङ्गीविधौ समारूढं विध्येकान्तादौ वानवस्थितं, सदायेकान्ते सर्वथार्थक्रियाविरोधादिति सूरिमतम् । नन्वेवं सुनयापितस्य विध्यंशस्य निषेधांशस्य चार्थक्रियाकारित्वे तेन व्यभिचारी हेतुः, तस्य सप्तभङ्गीविधावसमारूढत्वादन्यथानवस्थानात्, तस्यानर्थक्रियाकारित्वे सुनयस्यावस्तुविषयत्वप्रसक्तेः, वस्तुनोऽर्थक्रियाकारित्वादिति कश्चित्, तदयुक्तं, सुनयार्पितस्यापि विधेरनिराकृतप्रतिषेधस्यार्थक्रियाकारित्वादन्यथा दुर्नयार्पितत्वापत्तेः । न चासौ सप्तभङ्गीविधावसमारूढः, भङ्गान्तराप्रतिक्षेपात् । तथा च अष्टसहस्त्रीतात्पर्यविवरणम् मिति गम्यम् । निरन्वयमविनाश इति सान्वयविनाशस्वीकार इत्यर्थः । कथमिदानीमिति न चानुत्पन्नस्य स्थितिविपत्ती इति पूर्वमुक्तत्वादिति भावः । अन्यथानवस्थानादिति सनयार्पितस्यैकस्यैव भङ्गस्य सप्तभङ्गीत्वप्राप्तौ मर्यादालक्षणस्यावस्थानस्याभावादित्यर्थः, यद्वा विधावपि विध्यन्तरादिविकल्पप्राप्तावनवस्थानं बोध्यम् । न चासौ सप्तभङ्गीविधावसमारूढ इति यद्यपि सप्तभङ्गीविधिसमारूढत्वं सुनयापितत्वं वा नार्थक्रिया

Loading...

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450