Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 436
________________ ४०२ अष्टसहस्रीतात्पर्यविवरणम् हि निराधारोत्पत्तिविपत्तिा, क्रियारूपत्वात्स्थितिवत् । नैतन्मन्तव्यं 'नोत्पत्यादिः क्रिया, क्षणिकस्य तदसम्भवात् । ततोऽसिद्धो हेतुः' इति, प्रत्यक्षादिविरोधात् । प्रत्यक्षादिविरोधस्तावत् (भा०) प्रादुर्भावादिमतश्चक्षुरादिबुद्धौ प्रतिभासनात् तबुद्ध्या प्रादुर्भावविनाशावस्थानक्रियारहितसत्तामात्रोपगमस्य बाधनात् । (भा०) अन्यथा तद्विशिष्टविकल्पोऽपि मा भूत् । न हि दण्डपुरुषसम्बन्धादर्शने दण्डीति विकल्प: स्यात् । तथाविधपूर्वतद्वासनावशात्प्रादुर्भावाद्यदर्शनेऽपि तद्विशिष्टविकल्प इति चेत्, न नीलसुखादेरदर्शनेऽपि तद्विकल्पप्रसक्तेः ततस्तद्व्यवस्थापनविरोधात् । निरालम्बनविज्ञानमात्रोपगमेऽपि सन्तानान्तरस्वसन्तानपूर्वापरक्षणाज्ञानेऽपि तद्विकल्पोत्पत्तौ कुतस्तद्व्यवस्था ? संवेदनाद्वैतोपगमेऽपि संविदद्वैताभावेऽपि तद्वासनाबलात्संवित्स्वरूप्रतिभाससम्भवात्कथं स्वरूपस्य स्वतो गतिः सिद्धयेत् ? सत एव संवित्स्वरूपस्य तथावासनामन्तरेण स्वतो गतौ स्वसन्तानापूर्वापरक्षणसन्तानान्तरबहिरर्थजन्मादिक्रियाविशेषाणां सतामेव दर्शनाद्विकल्पोत्पत्तिर्युक्ता, इति नोत्पत्त्यादीनां क्रियात्वमसिद्धं यतस्तन्निराधारत्वप्रतिषेधो न सिद्धयेत् । ततो न प्रागसतोऽप्युत्पत्तिः सम्भवति । निरन्वयमविनाशो प्रागसत उत्पत्तिरित्ययमपि पक्षो न क्षेमङ्करः, अष्टसहस्त्रीतात्पर्यविवरणम् क्षणिकपक्षशिरस्येव वज्रदण्डप्रहारदायित्वादित्यभिप्रायवानाह-नैतन्मन्तव्यमित्यादि नैतन्मन्तव्यमित्यस्य ततोऽसिद्धो हेतुरित्यनन्तरमन्वय इति नासङ्गतिः । अन्यथा प्रादुर्भावादेश्चक्षुरादिबुद्धावप्रतिभासमानत्वेन, निरालम्बनविज्ञानमात्रोपगमेऽपि= योगाचाराभिमतबाह्यार्थनिरपेक्षसाकारज्ञानवादेऽपि, तद्विकल्पोत्पत्ताविति अनन्तरं स्वीक्रियमाणायामिति शेषः । कुतस्तव्यवस्था सन्तानान्तरस्वसन्तानपूर्वापरक्षणव्यवस्था, तदनुरोधेन तद्वास्तवत्वाङ्गीकारे चोत्पादादिविशिष्टानुभवव्यवस्थानुरोधेनोत्पादादेरपि वास्तवत्वं बलादेव सिद्ध्यति । संवेदनाद्वैतोपगमेऽपि माध्यमिकदृष्ट्या सन्तानान्तरस्वसन्तानाद्यन्तक्षणरहितमध्यमक्षणमात्रविश्रान्तज्ञानस्वीकारेऽपि । स्वतो गताविति, अभ्युपगम्यमानाया

Loading...

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450