Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 429
________________ प्रथमो भागः [परि०१-का. १९] ३९५ प्रतिषेध्यात्मकत्वस्यापि तान्प्रति तत एव सिद्धिः, इति समासतः कारिकार्थः समवतिष्ठते । [बौद्धो ब्रूते यत् प्रत्यक्षज्ञाने स्वलक्षणमेव प्रतिभासते न पुनरस्तित्वादिविशेषणं तस्य विचार:] ननु च प्रत्यक्षबुद्धौ वस्तु स्वलक्षणमेव प्रतिभाति, न पुनरस्तित्वादिविशेषणं, तस्य सकलविकल्पविकलत्वात्, विकल्पबुद्धौ तद्व्यवहारप्रसिद्धेरिति चेत्, न वस्तुनोऽस्तित्वाद्यनेकविकल्पात्मकस्य सांशस्यैव प्रतीतेः । (भा०) किञ्चित्केनचिद्विशिष्टं गृह्यमाणं विशेषणविशेष्यतत्सम्बन्धलोकस्थितिसङ्कलनेन गृह्येत नान्यथेत्यभिनिवेशेऽपि वस्तुनो विधिप्रतिषेधस्वभावयोः प्रत्येकं दर्शनमवश्यंभावि ।। वस्तुन एव दर्शनं न तद्विधिप्रतिषेधस्वभावयोविशेषणयोरिति वक्तुमशक्ते: सदसत्स्वभावशून्यस्य स्वलक्षणस्य दर्शने तत्पृष्ठभाविविकल्पेनापि सदसत्त्वयोरध्यवसायायोगात् पीतदर्शनपृष्ठभाविना विकल्पेन नीलत्वाध्यवसायायोगवत् । (भा०) ततो विधिप्रतिषेधावात्मानौ विशेषस्य सविकल्पकत्वं साधयतः । सर्वथा तस्य भेदाभावे सदिदमसदिदमिति प्रत्येकं दर्शनाभावानुषङ्गात्, इदमुपलभे नेदमिति विकल्पोत्पत्तिविरोधात् । (भा० ) ततः सामान्यविशेषात्मकं वस्तु स्वलक्षणम्, न पुनः सकलविकल्पातीतं विशेषमानं सामान्यमानं वा परस्परनिरपेक्ष, तदुभयं वा स्वलक्षणं, तस्य तेन रूपेणाव्यवस्थितत्वात्, सामान्यविशेषात्मन एव जात्यन्तरस्य वस्तुस्वरूपत्वात् तेनैव लक्ष्यमाणस्य स्वलक्षणत्वप्रसिद्धः - अष्टसहस्रीतात्पर्यविवरणम् विशेष्यभावविपर्यासादुभयप्रसिद्धस्य वस्तुत्वस्य हेतोरित्यर्थः सामर्थ्यतः= पक्षदृष्टान्तवचनप्रयुक्ताक्षेपात्, तान् प्रति तदुभयासत्त्ववादिनः प्रति, तत एव जीवाद्यर्थो विधेयप्रतिषेध्यात्मा वस्तुत्वादित्यनुमानादेवेत्यर्थः । विकल्पबुद्धौ=सविकल्पकज्ञाने, तद्व्यवहारप्रसिद्धेः=व्यवहारौपयिकतदाकारोपलम्भात्, सांशस्य विधिनिषेधविशेषणविशिष्टस्य । सविकल्पकत्वं साधयत इति ज्ञानमात्रस्य विधिनिषेधान्यतमविशिष्टविषयकत्वनियमा


Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450