Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 411
________________ प्रथमो भागः [परि० १-का. १६] ३७७ अष्टसहस्त्रीतात्पर्यविवरणम् द्रव्यमादेशविशेषितम् = उभयप्रधानावयवाभेदेनापितं स्वाश्रयसमवायित्वरूपपरम्परासम्बन्धावच्छिन्नधर्मद्वयप्रकारतानिरूपितकविशेष्यताकौपादानिकबोधेच्छाविषयीकतमिति यावत् । यथाश्रुते घटपदस्य देशपरस्यावृत्त्याः प्रकारताद्वयनिरूपितविशेष्यताद्वयशालिन एव बोधस्य जननादौपादानिकबोधपर्यन्तमनुधावनम्, एवमग्रेऽपि बोध्यम् । उक्तन्यायेन पञ्चमभङ्गप्रदर्शनायाह सब्भावे आइट्ठो देसो देसो य उभयहा जस्स । तं अस्थि अवत्तव्वं च होइ दवियं विअप्पवसा ॥ [का० १.३८] सद्भावे अस्तित्वे यस्य घटादेर्धर्मिणो देश आदिष्टो देशश्चापर उभयथाऽस्तित्वनास्तित्वप्रकाराभ्यामेकदैव विवक्षितः तद् द्रव्यं अस्ति चावक्तव्यं च भवति, विकल्पवशाद=उक्तोभयधर्माक्रान्तदेशद्वारेण धर्मिणो विवक्षावशात्, तेन प्रथमतृतीयभङ्गसंयोगेनान्यथासिद्धिव्युदासः, केवलधर्मविवक्षाया देशाविशेषितद्रव्य एव सम्भवात, देशद्वारा द्रव्ये उभयधर्मविवक्षाया एव युक्तत्वादिति बोध्यम् । षष्ठं भङ्ग दर्शयितुमाह आइट्ठो सब्भावे देसो, देसो य उभयहा जस्स । तं णत्थि अवत्तव्वं च होइ दवियं विअप्पवसा ॥ [का० १.३९] यस्य वस्तुनो देश एकोऽसत्त्वे नियतोऽपरश्च सत्त्वासत्त्वाभ्यां युगपद् आदिष्टः तद् द्रव्यं तथा विकल्पवशान्नास्ति चावक्तव्यं च भवति, केवलद्वितीयतृतीयभङ्गव्युदासः प्राग्वद्भाव्यः । सप्तमं प्रदर्शयति सब्भावासब्भावे देसो, देसो य उभयहा जस्स । तं णत्थि अवत्तव्वं च होइ दवियं विअप्पवसा ॥ [का० १.४०] यस्य देश एक: सद्भावे अपरो असद्भावे अन्यश्चउभयथा नियतस्तद् द्रव्यं तथाविकल्पवशादस्ति नास्त्यवक्तव्यं च भवति, विशिष्टविवक्षया केवलभङ्गत्रयव्युदासः । न चात्राष्टमवचनविकल्पपरिकल्पनापि सम्भवदवतारा, तन्निमित्ताभावात्, सावयवात्मकस्य निरवयवात्मकस्य तन्निमित्तस्य चतुर्थादिषु प्रथमादिषु चान्तर्भावात्, गत्यन्तरस्य चासत्त्वात् ।

Loading...

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450