Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 418
________________ ३८४ अष्टसहस्त्रीतात्पर्यविवरणम् धानव्यवहारप्रसिद्धेः । क्वचित्पदार्थे ऽनिन्द्र स्वभावेऽपीन्द्रशब्दवाच्यत्वशक्तिसद्भावाद्व्यवहर्तृसङ्केतविशेषादिन्द्राभिधानप्रत्ययविशेषसिद्धेर्वस्तुस्वभावभेदनिबन्धन एव सङ्केतविशेष इति न तदभावे भवितुमुत्सहते, यतः प्रत्ययविशेषः स्यात् । कथमन्यथा खपुष्पवत्खेऽपि नास्तीति प्रत्ययो न भवेत् ? खवद्वा खपुष्पेऽप्यस्तीति प्रत्ययः कुतो न स्यात् ? तयोरन्यतरत्रोभावपि प्रत्ययौ कुतो न स्याताम् ? सङ्केतविशेषस्य सर्वथा वस्तुस्वभावभेदानपेक्षस्य सम्भवात् । प्रतिनियतश्च विधिनियमप्रत्ययविशेषः सकलबाधकविकलः संलक्ष्यते । ( भा० ) ततो यावन्ति पररूपाणि प्रत्येकं तावन्तस्ततः परावृत्तिलक्षणाः स्वभावभेदाः प्रतिक्षणं प्रत्येतव्याः । स्वलक्षणमेवान्यापोह इति व्यवस्थापयितुमशक्तेः, तस्य सम्बन्ध्यन्तरापेक्षत्वात् । न च सम्बन्ध्यन्तराणि स्वलक्षणस्य स्वरूपभूतान्येव, तेषां पररूपत्वादन्यथा ततः परावृत्तेरनुपपत्तेः । पररूपाण्यपि, ( भा० ) यदि सम्बन्ध्यन्तराणि भावस्वभावभेदकानि न स्युस्तदा नित्यत्वेऽपि कस्यचित्सम्बन्ध्यन्तरेषु कादाचित्केषु क्रमशोऽर्थक्रिया न वै अष्टसहस्त्रीतात्पर्यविवरणम् एवं सर्वत्र नानार्थत्वापत्तिः, इष्टत्वाद्, व्यवहारविशेषस्य च कोशादिनियन्त्रितत्वेनानतिप्रसङ्गात्, अत एव न लक्षणोच्छेदः कोशादिनियन्त्रितशक्त्यभावे तदवकाशस्याविरुद्धत्वादिति द्रष्टव्यम् । पररूपाणीति परत्वापादकानीत्यर्थः, तेन पररूपावच्छिन्नाभाववद् व्यधिकरणसम्बन्धावच्छिन्नप्रतियोगिताकाभावा अपि सङ्गृहीता भवन्ति । स्वभावभेदा इति भाववदभावस्य स्वभावत्वात्तस्य च प्रतियोगितावच्छेदकरूपसम्बन्धादिभेदेन भिन्नत्वादित्यर्थः । `यत्तु पररूपावच्छिन्नाभावो व्यधिकरणसम्बन्धावच्छिन्नाभावेनैव गतार्थ इति भवदेवमतम्, तद् गतार्थमेव, विनिगमकाभावात्प्रतीतिशरणप्रथमकल्पनाया उभयत्र तौल्यात्, भूतले घटत्वेन पटो नास्ति न तु घट इत्यस्यायोग्यतापत्तेश्च, घटवत्यपि घटत्वसम्बन्धेन तदभावाक्षतेरित्यधिकं लतायाम् । अधिकरणस्वरूपाभावैकान्तवादं सौगतस्य निरस्यति-स्वलक्षणमेवेत्यादि तस्य = अन्यापोहस्य, सम्बन्ध्यन्तरापेक्षत्वात् = सम्बन्ध्यन्तरनिरूपणाधीननिरूपणत्वात्, तथा च सापेक्षनिरपेक्षत्वाभ्यां भेद आवश्यक इति भावः । सम्बन्ध्यन्तराणां वस्तुस्वभावाभेदकत्वे क्षणिकत्वसाधकमूलयुक्तिविरोध इत्याह-यदी -

Loading...

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450