Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 407
________________ प्रथमो भागः [ परि० १ - का० १६ ] सतोऽप्यन्यापोहस्य चासतोऽपि वक्तुमशक्यत्वात् इति परमतापेक्षया चरमभङ्गत्रय अष्टसहस्त्रीतात्पर्यविवरणम् युगपदादिष्टाभ्यां तद्भेदादनेकभेद इत्येते त्रयो निरवयवद्रव्यविषयत्वात् सकलादेशरूपाः, सदसत्त्वसदवक्तव्यत्वादयश्चत्वारस्तु चरमाः सावयवद्रव्यविषयत्वाद्विकलादेशरूपाः, देशभेदं विनैकत्र तु क्रमेणापि सदसत्त्वविवक्षा सम्प्रदायविरुद्धत्वान्नोदेतीति न निरवयवद्रव्यविषयत्वमेषामित्यस्मदभिमतोक्तमेव युक्तमिति मन्तव्यम् । तदेतद्रहस्यं स्वसमयव्युत्पत्तिरसिकमनोविनोदाय सम्मतिगाथाभिरेव व्युत्पादयामः अत्यंतरभूएहिं णियएहि य दोहिं समयमाईहिं । वयणविसेसाईयं दव्वमवत्तव्वयं पडइ ॥ [ काण्ड १.३६ ] ३७३ अर्थान्तरभूतः पटादिः निजो घटादिः ताभ्यां द्वाभ्यां सदसत्त्वं घटवस्तुनः प्रथमद्वितीयभङ्गनिमित्तं प्रधानगुणभावेन भवतीति सोपस्कारं व्याख्येयम् । समयमाईहिं इत्यनन्तरं तुर्गम्यः, द्वाभ्यामिति चानुवर्त्तते, समकमादिरादानं ययोस्ताभ्यां सहार्पिताभ्यां तु द्वाभ्यामित्यर्थः । वचनविशेषातीतं वचनस्य विशेषः शक्तिस्तमतीतमतिक्रान्तं सत् तथाविधवाचकाविषयीभूतमिति यावत् । द्रव्यं घटादि, अव्यक्तव्यम्, पतति अशक्तिभाराद्वक्तव्यताशिखरे स्थातुं न शक्नोतीत्यर्थः । अव्यक्तव्यतां वा पततीति व्याख्येयम्, तथाहि-द्वयोर्धर्मयोः प्राधान्येन गुणभावेन वा प्रतिपादने न किञ्चिद्वचः समर्थम् । वृत्तौ द्वन्द्वस्यैवोभयपदप्रधानत्वात्, तस्य च द्रव्यवृत्तेः प्रकृतेऽनुक्तिसम्भवाद्, गुणवृत्तेरपि गुणानां परार्थत्वेन प्राधान्याघटनात्, प्रत्येकभङ्गस्थले एकधर्मस्यैकधर्म्युपचारेण प्राधान्यसम्भवे विरुद्धत्वेन प्रतीयमानयोर्धर्मयोरेकधर्म्युपचारायोगात्, वाक्यस्यापि वृत्त्यभिन्नार्थत्वेन तदनतिशायित्वात्, न च केवलं पदं वाक्यं वा लोकप्रसिद्धं तथा, तस्यापि परस्परापेक्षद्रव्यादिविषयतया तथाभूतार्थप्रतिपादकत्वायोगात्, न च तौ सदिति शतृशानचोरिव सङ्केतितैकशब्दवाच्यत्वम्, विकल्पप्रभवशब्दवाच्यत्वप्रसङ्गात्, विकल्पानां च युगपदप्रवृत्तेर्नैकदा तयोस्तद्वाच्यतासम्भव इति । एतेन तदादिपदप्रतिबन्धपि निरस्त । तत्तद्विकल्पप्रभवेन तच्छब्देन क्रमेणैवानेकार्थाभिधानात् एकवचनान्तस्याप्येकशेषस्य 'जहा एगो पुरिसो तहा बहवे पुरिसा [ ] इत्याद्यागमसिद्धत्वात् । न च निजार्थान्तरैकताभ्युपगमेऽप्यर्थस्य वाच्यता, तथाभूतस्यात्यन्तासत्त्वेनावाच्यत्वात् । न च घटत्वे घटशब्दप्रवृत्तिनिमित्ते सिद्धेऽसम्बद्ध एव तत्र पटाद्यर्थप्रतिषेध इति द्वितीयभङ्गानवकाशात् तृतीयोऽपि १. छाया - यथैकः पुरुषस्तथा बहवः पुरुषाः ।

Loading...

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450