Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 394
________________ ३६० अष्टसहस्त्रीतात्पर्यविवरणम् कस्यचिद्विरोधः, प्रधानगुणभावपक्षस्यैवाभिमतत्वात्, स्यादिति निपातेनानेकस्य धर्मस्याकाङ्क्षणेऽनैकस्यैव प्रधानस्य गुणानपेक्षस्यापवदनात्, सर्वस्य वाचकतत्त्वस्य गुणप्रधानार्थत्वात्, वाच्यतत्त्वस्य च तथाभूतत्वात् । तदुक्तम् आकाक्षिणः स्यादिति वै निपातो, गुणानपेक्षे नियमेऽपवादः । गुणप्रधानार्थमिदं हि वाक्यं, जिनस्य ते तद्विषतामपथ्यम् ॥ [स्वयं० ४४-४५] [प्रमाणवाक्यमशेषधर्मात्मकं वस्तु प्रकाशयति तत् कथं सम्भवेत् जैनमते ?] नन्वेवं प्रधानभावेनाशेषधर्मात्मकस्य वस्तुनः प्रकाशकं प्रमाणवाक्यं कथ अष्टसहस्रीतात्पर्यविवरणम् शब्दस्य प्रधानैकार्थत्वे विशेषणवाचकशब्दोच्छेदापत्तिरिति आशङ्कायाम् अवयवधीदशायामापाततो विशेषणविशेष्ये कामचारादिष्टप्राधान्यमविरुद्धम्, वस्तुतः स्याच्छब्दोत्थापिताकाङ्क्षगुणापेक्षत्वमेवैकप्रधानार्थत्वम्, तच्च स्वाभिन्नानन्तधर्मात्मकत्वसंसर्गेण स्वाश्रयविशेष्यकैकधर्मप्रकारकबोधतात्पर्यकत्वं पदे वाक्ये चाविरुद्धमिति व्युत्पादयन्नाह-स्यादिति निपातेनेत्यादिना । गुणानपेक्षस्य सदेवेत्यादिना गुणाकाङ्क्षारहितस्य, अपवदनात्=निराकरणात्, तथाभूतत्वाद्=गुणप्रधानभूतत्वात् । उक्तेऽर्थेऽभियुक्तसम्मतिमाह-तदुक्तमित्यादिना गुणानपेक्षे नियमे सन्नेव घट इत्यादिप्रयोगे स्यादिति निपातो वै=निश्चितम्, अपवादः नयरूपस्योत्सर्गस्य स्याद्वादेन बाधनात्, नयात् प्रकृतैकधर्मात्मकत्वस्यैव वस्तुनः सिद्धेः, स्याद्वादात्तु प्रकृतेतरयावद्धर्मात्मकत्वद्योतकस्याच्छब्दमहिम्नाऽनन्तधर्मात्मकस्य वस्तुनः सिद्धिसौधाध्यारोहात् । तदाह-इदं हि प्रकृतं जिनस्य=रागादिशत्रुजेतुः, ते=तव, वाक्यं गुणप्रधानार्थं प्रधानभावेन प्रकृतधर्मात्मकताया गुणभावेन च तदितरसकलधर्मात्मकताया बोधपरम्, तत एव रागादिरोगग्रस्तानामेकान्ताभिनिवेशसन्निपातेन यथातथाप्रलापकारिणां तव द्विषतां परतीथिकानाम, अपथ्यम अरूचिविषयत्वादिति स्ततिवत्तार्थः । नन गणप्रधानार्थमेव सर्वं वाक्यमित्यभ्युपगमे प्रधानभावेनाशेषधर्मात्मकवस्तुप्रतिपादकसकलादेश उच्छिद्यतेति आशकते-नन्वेवमिति प्रमाणवाक्यानां सर्वैः पदैमिलित्वा प्राधान्येनानन्तधर्मात्मकवस्तुबोधन एव तात्पर्यम्, वेदान्तवाक्यानामिवाखण्डब्रह्मबोधने । तथा च स्यादस्त्येव द्रव्यमित्यतः स्वेतरसकलधर्मात्मकत्वसम्बन्धेनास्तित्ववदेव द्रव्यमिति प्राथमिकबोधानन्तरं तस्मादनन्तधर्मात्मकमेव सर्वं वस्त्वित्यौपादानिकबोधः सकलादेशजन्यः स्वी

Loading...

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450