Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 392
________________ अष्टसहस्त्रीतात्पर्यविवरणम् केषाञ्चिदेकशेषारम्भात् परेषां स्वाभाविकत्वादभिधानस्येति सङ्गरामहे । तत्रैकशेषपक्षे द्वाभ्यामेव वृक्षशब्दाभ्यां वृक्षद्वयस्य, बहुभिरेव च वृक्षशब्दैर्बहूनां वृक्षाणामभिधानान्नैकस्य शब्दस्य सकृदनेकार्थविषयत्वं, शिष्टलुप्तशब्दयोः सारूप्यादभिधेयसाम्याच्चैकत्वोपचारादेकशब्दप्रयोगोपपत्तेः । स्वाभाविकत्वे त्वभिधानस्य, वृक्षशब्दो द्विबहुवचनान्तः स्वभावत एव स्वाभिधेयमर्थं द्वित्वबहुत्वविशिष्टमाचष्टे, तथा सामर्थ्यादन्यथा शब्दव्यवहारानुपपत्तेः । ननु च वृक्षा इति प्रत्ययवती प्रकृतिः पदम्, अष्टसहस्त्रीतात्पर्यविवरणम् ३५८ मन्तव्यम् । केषाञ्चिदिति यैरेकशेषः स्वीक्रियते तन्मत इत्यर्थः । स चैकशेषः केषाञ्चिद् द्वन्द्वापवादः । न च द्वन्द्वः क्वचित् पदार्थभेदे क्वचिच्च पदार्थतावच्छेदकभेद इत्यत्र तद्विषयासम्भवो । न च प्रतिपाद्यभेद एवानुगतो द्वन्द्वनियामकः, एकघटाभिप्रायकघटपदद्वयेऽपि द्वन्द्वापत्तेः, प्रतिपाद्यघटघटत्वयोर्भेदादिति शङ्कनीयम्, एकपदप्रतिपाद्यत्वसामानाधिकरण्येनापरपदप्रतिपाद्यत्वावच्छिन्नभेदे एकपदजन्मप्रतिपत्तिविषयितासामान्याधिकरण्येनापरपदजन्यप्रतिपत्तिविषयितात्वावच्छिन्नभेदे वा द्वन्द्वप्रवृत्तेर्नियतत्वात्, घटावित्यादावेकपदप्रतिपाद्येऽपरपदप्रतिपाद्यत्वावच्छिन्नभेदाद्विशेष्यताभेदेन विषयिताभेदाद्वा तदुपपत्तेः, पदार्थतावच्छेदकाभेदेऽपि विषयिताभेदादेव समवायेन गुणत्ववतो विषयितया गुणत्ववतश्च बोधकयोर्मेयवदभिधेयवद् बोधकयोश्च तदादिपदयोर्द्वन्द्वो निरपवादः । गगनाकाशादिपदयोश्च शब्दरूपपदार्थतावच्छेदकस्याननुगतत्वात्तद्भेदेऽपि न द्वन्द्वो विषयित्वाभेदादिति मन्तव्यम् । अन्येषां तु मते तद्धितादिवद् वृत्त्यन्तरमेव सः, न तु द्वन्द्वभेदः, समासान्तरं वा, करौ पन्थानावित्यत्र नपुंसकत्वस्यादन्ततायाश्चापत्तेरिति बोध्यम् । परेषामिति ये नैकशेषमिच्छन्ति तन्मतेनेत्यर्थः, तदनिष्टिश्च द्वन्द्वनियामकनिर्वचने विषयितास्थाने प्रकारिताया एव निवेशादेकार्थे तदसम्भवात्, वृक्षावित्यादौ प्रत्ययार्थद्वित्वान्वयस्य वृक्षपदार्थे एकत्वानवच्छेदेनैव सम्भवात्, सरूपैकशेषस्वीकारे तु तत्रैकत्वावच्छिन्ने द्वित्वबुद्धेः प्रमात्वायोगाद् वृक्षत्वादेर्द्वित्वावच्छेदकत्वे त्वेकत्रापि वृक्षत्वेन द्वित्वधियः प्रमात्वापत्तेः, अत एवेदृशसमभिव्याहारस्येदृशशाब्दबोधजनकत्वे स्वभावशरणानुधावनम् । इत्थमेव हरी इत्यादावगृहीतभेदपदद्वयादेवार्थद्वयबोधाच्छाब्देन द्वित्वेन निर्वाह इति बोध्यम् । अनेकनयमये भगवत्प्रवचने न्यायनयोपग्रहस्यापि क्वचिददुष्टत्वे तु मणिकृन्मतमेवात्रादेयम्, तत्र च नापातत एकार्थत्वे निर्भर:, किन्तु प्रधानैकार्थत्व इति सर्वं समञ्जसम् । एवं व्याख्याने ग्रन्थकारः स्याद्वादिसमयविरोधमाशङ्कते - ननु च वृक्षा इतीत्यादिना

Loading...

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450