Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 399
________________ प्रथमो भाग: [परि०१-का. १६] ३६५ द्रव्यपर्यायौ समुदितौ समाश्रित्य सदसदवक्तव्यमेवेति व्याख्यानमकलङ्कदेवैर्व्यधायि । [अद्वैतवादी सत्सामान्यमेव मन्यते तस्य निराकरणम्] तत्र वस्तु सत्सामान्यं कथं सदप्यव्यक्तव्यमिति चेत्, तस्य पराभ्युपगमात् सतोऽपि वचनानुपपत्तेः ।। (भा०) न खलु सर्वात्मना सामान्यं वाच्यं, तत्प्रतिपत्तेरर्थक्रियां प्रत्यनुपयोगात् । न हि गोत्वं वाहदोहादावुपयुज्यते । स्वविषयज्ञानमात्रेऽपि तस्यासामर्थ्यात् । व्यक्तिसहितस्य सामान्यस्य तत्र सामर्थ्येऽपि न प्रतिपन्नसकलव्यक्तिसहितस्य सामर्थ्यम्, असर्वज्ञस्य सकलव्यक्तिप्रतिपत्तेः सकृदसम्भवात् । अप्रतिपन्नाखिलव्यक्तिभिः सहितस्य सामर्थ्य पुनरेकव्यक्तेरप्यग्रहणे सामान्यज्ञानप्रसङ्गः । कतिपयव्यक्तिसहितस्य सामर्थ्य तस्य ताभिरुपकारानुपकारविकल्पद्वयानतिक्रमः । प्रथमविकल्पे सामान्यस्य व्यक्तिकार्यत्वप्रसङ्गः तदभिन्नस्योपकारस्य करणात् । ततो भिन्नस्य करणे व्यपदेशासिद्धिः । तत्कृतोपकारेणापि तस्योपकारान्तरकरणेऽनवस्थानम् । द्वितीयविकल्पे व्यक्तिसहभाववैयर्थ्यम्, अकिञ्चित्करसहकारिविरहात् । सामान्येन सहैकज्ञाने व्यापाराद् व्यक्तीनां तत्सहकारित्वेऽपि किमालम्बनभावेन तत्र तासां व्यापारोऽधिपतित्वेन वा ? प्राच्यकल्पनायामेकानेकाकारं सामान्यविशेषज्ञानं स्यान्न पुनरेकसामान्यज्ञानं, स्वालम्बनानुरूपत्वात्सकलविज्ञानस्य । द्वितीयकल्पनायां तु व्यक्तीनामनधिगमेऽपि सामान्यज्ञानप्रसङ्गः । न हि रूपज्ञाने चक्षुषोऽधिगतस्याधि - अष्टसहस्रीतात्पर्यविवरणम् सौधमध्यास्यत इत्यकलङ्कदेवाशयः । भाष्ये न खलु सर्वात्मनेति अत्र सर्वात्मनेत्यस्य व्यक्त्यनवच्छेदकत्वरूपस्वातन्त्र्येणेत्यर्थः । किमालम्बनभावेनेति किं विषयविधयेत्यर्थः । अयं च वितर्को यतो व्यक्तिसामान्योभयविषयजनितेन ज्ञानेन नियमत उभयविषयतया भाव्यम्, ततः सामान्यज्ञाने विषयतया व्यक्तीनामपि हेतुत्वौचित्यमित्याशयात् । तत्र= सामान्येन सहैकज्ञाने, तासां=व्यक्तीनाम्, व्यापार:=कार्यजननाभिमुख्यम्, अधिपतित्वेन वेति=आलम्बनभिन्नकारणत्वेन वेत्यर्थः । अनधिगमेऽपीति न चेष्टापत्तिः, महत्त्वोद्भूतयोरप्रवेशलाघवेन द्रव्यान्यद्रव्यसमवेतचाक्षुषे चक्षुःसंयुक्तचाक्षुषसमवायत्वेन परेषां हेतुत्वेन जातिचाक्षुषपूर्वं नियमतो व्यक्तिचाक्षुषकल्पनेन तस्याः कर्तुमशक्यत्वात् । न हि रूपज्ञान

Loading...

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450