Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 383
________________ ३४९ प्रथमो भाग: [परि०१-का. १५] विरुद्ध्येत, द्रव्यसामान्यापेक्षया तयोरेकत्वमिति मननात् । (भा०) विशेषापेक्षया तु नास्त्येव तादृशामेकत्वम् । (भा०) न हि पौरस्त्यः पाश्चात्यः स्वभावः पाश्चात्यो वा पौरस्त्यः । नन्वेवमेकत्वं मा भूत् पूर्वापरपरिणामानां, क्रमस्यैवावस्थानादक्रमस्य तद्विरुद्धत्वादिति न मन्तव्यं यस्माद् (भा०) निरपेक्षस्तत्र क्रमोऽपि प्रतिभासविशेषवशात्प्रकल्प्येत तदेकत्वादक्रमः किन्न स्यात ? । प्रतिभासैकत्वेऽपि तदक्रमानुपगमे प्रतिभासविशेषवशात्क्रमः कथमभ्युपगमार्हः स्यात् ? सर्वस्य यथाप्रतिभासं वस्तुनः प्रतिष्ठानात्, प्रतिभासमानयोः क्रमाक्रयोविरोधानवतरणाद्विरोधस्य सहानुपलम्भलक्षणत्वात् । न च स्वरूपादिना वस्तुनः सत्त्वे तदैव पररूपादिभिरसत्त्वस्यानुपलम्भोऽस्ति, येन सहानवस्थानलक्षणो विरोधः शीतोष्णस्पर्शविशेषवत्स्यात् । परस्परपरिहारस्थितिलक्षणस्तु विरोधः सहैकत्राम्रफलादौ रूपरसयोरिव सम्भवतोरेव सदसत्त्वयोः स्यात्, न पुनरसम्भवतोः सम्भवदसम्भवतोर्वा । एतेन वध्यघातकभावोऽपि विरोधः फणि-नकुलयोरिव बलवदबलवतोः प्रतीतः सत्त्वासत्त्वयोरशङ्कनीयः कथितः, तयोः समानबलत्वादित्येतदने प्रपञ्चयिष्यते । [एकस्मिन्नेव वस्तुनि सामान्यविशेषसदसदाधिधर्माः परस्परविरुद्धाः सन्तोऽपि निरङ्कुशाः सम्भवतीति जैनाचार्याः कथयन्ति] (भा०) तदेकानेकाकारमक्रमक्रमात्मकमन्वयव्यतिरेकरूपं सामान्यविशेषात्मकं सदसत्परिणामं स्थित्युत्पत्तिविनाशात्मकं स्वप्रदेशनियतं - अष्टसहस्त्रीतात्पर्यविवरणम् प्रतिबन्धकज्ञानविषयत्वमपरस्य विरोधो, न च क्रमाक्रमयोरयमस्ति, एकत्र पर्यायरूपेण क्रमज्ञानकाल एव द्रव्यरूपेण क्रमस्य ज्ञायमानत्वादित्यर्थः । इत्थमेव सत्त्वासत्त्वयोरपि न विरोध इत्याह-न चेत्यादिना । सम्भवतोरेवेति नियमागर्भभिन्नाधिकरणत्वपरस्परपरिहार: स्थितिपदार्थ इत्यभिप्रायेणेदम, भावाभावरूपत्वमेव परस्परपरिहारत्वमित्यर्थे तु तद्विरोधस्य

Loading...

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450