Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 381
________________ प्रथमो भाग: [ परि० १ - का० १५ ] ३४७ पटादयो घटादिवत्क्षीराद्याहरणलक्षणामर्थक्रियां कुर्वन्ति घटादिज्ञानं वा । तदुभयात्मनि दृष्टान्तः सुलभः । सर्वप्रवादिनां स्वेष्टतत्त्वस्य स्वरूपेण सत्त्वेऽनिष्टरूपेणासत्त्वे च विवादाभावात् तस्यैव च दृष्टान्ततोपपत्तेः । [एकस्मिन् वस्तुनि सत्त्वासत्त्वधर्मौ परस्परविरुद्धौ स्तः कथं स्यातामस्य विचारः ] ननु चैकत्र वस्तुनि सत्त्वमसत्त्वं च युक्तिविरुद्धं, परस्परविरुद्धयोर्धर्मयोरेकाधिकरणत्वायोगात्, शीतोष्णस्पर्शवद्भिन्नाधिकरणत्वप्रतीतेरिति चेत्, न तयोः कथञ्चिदर्पितयोर्विरुद्धत्वासिद्धेस्तथा प्रतिपत्तिसद्भावाच्च । ( भा०) शाब्देतरप्रत्यययोरेकवस्तुविषययोरेकात्मसमवेतयोः कारण अष्टसहस्त्रीतात्पर्यविवरणम् ते होंति परावेक्खा वंजयमुहदंसिणो त्ति ण य तुच्छा । दिट्ठमिणं वेचित्तं सरावकप्पूरगंधाणं ॥ इति, [३०] तत्त्वतस्तु सामान्यदृष्ट्या सर्वे निरपेक्षा विशेषदृष्ट्या च सर्वे सापेक्षा इति व्यापकोऽनेकान्त एव विजयते, व्यञ्जनपर्यायैः सदृशानामप्यर्थपर्यायैर्वैसदृश्यस्य शास्त्रसिद्धत्वात् । तदाह प्रवचनोपनिषद्वेदी महावादी सिद्धसेनः परपज्जवेहिं असरिसगमेहिं णियमेव णिच्चमवि णत्थि । सरिसेहिं पि वंजणओ अस्थि ण पुणत्थपज्जाए ॥१॥ इति, [सम्मति० ३.५] कथञ्चिदर्पितयोः=स्वपररूपाभ्यां विवक्षितयोः, तथाप्रतिपत्तिसद्भावाच्च तादृशयोस्तयोरेकाधिकरणत्वधीसद्भावाच्च, न च दृष्टेऽनुपपन्नं नाम, भिन्नस्वभावयोरप्येकत्वं दृष्टान्तेन प्रसिद्धेनोपदर्शयति-शाब्देतरेत्यादि । स्पष्टास्पष्टविषयतया भिन्नस्वभावत्वेन सिद्धयोः प्रत्यक्षशाब्दबोधयोर्यथैकविषयत्वमेकद्रव्याश्रयत्वं चाविरुद्धं तथा सत्त्वासत्त्वयोरेकाश्रयत्वमपीति १. छाया - ते भवन्ति परापेक्षा व्यञ्जकमुखदर्शिन इति न च तुच्छाः । दृष्टमिदं वैचित्र्यं शरावकर्पूरगन्धयोः ॥ = २. छाया - परपर्यवैरसदृशगमैर्नियमेन नित्यमपि नास्ति । सदृशैरपि व्यञ्जनः तोऽस्ति न पुनरर्थपर्यायैः ॥

Loading...

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450