Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 379
________________ प्रथमो भागः [परि०१-का. १५] ३४५ स्वरूपम् । अवधिदर्शनस्यावध्यालोचनं स्वरूपम् । परोक्षस्यापि मतिज्ञानस्येन्द्रियानिन्द्रियनिमित्तं स्वार्थाकारग्रहणं स्वरूपम् । अनिन्द्रियमात्रनिमित्तं श्रुतस्य स्वरूपम् । प्रत्यक्षस्यापि विकलस्यावधिमनःपर्ययलक्षणस्य मनोऽक्षानपेक्षं स्पष्टात्मार्थग्रहणं स्वरूपम् । सकलप्रत्यक्षस्य सर्वद्रव्यपर्यायसाक्षात्करणं स्वरूपम् । ततोऽन्यत् सर्वं तु पररूपम् । ताभ्यां सदसत्त्वे प्रतिपत्तव्ये । एवमुत्तरोत्तरविशेषाणामपि स्वपररूपे तद्विद्भिरभ्यूह्ये तद्विशेषप्रतिविशेषाणामनन्तत्वात् । द्रव्यक्षेत्रकालभावविशेषाणामनेनैव प्रतिद्रव्यपर्यायं स्वपररूपे प्रतिपादिते । [जीवादिद्रव्याणां किं स्वद्रव्यं किञ्च परद्रव्यम् ?] ननु च जीवादिद्रव्याणां षण्णामपि किं स्वद्रव्यं किं वा परद्रव्यम् ? यतः सदसत्त्वे व्यवतिष्ठेते, द्रव्यान्तरस्यासम्भवादिति चेत्, न तेषामपि शुद्धं सद्रव्यमपेक्ष्य सत्त्वस्य तत्प्रतिपक्षमसद्भावमपेक्ष्यासत्त्वस्य च प्रतिष्ठोपपत्तेः । शुद्धद्रव्यस्य स्वपरद्रव्यवस्था कथम् ? तस्य सकलद्रव्यक्षेत्रकालभावात्मकत्वात्, - अष्टसहस्त्रीतात्पर्यविवरणम् ऽवच्छिन्नत्वप्रतीतेः सार्वजनीनत्वात्, केनचिन्नयेन स्वरूपादेः स्वरूपतोऽवच्छेदकत्वं निर्णीयैवास्तित्वादिप्रवृत्तेरनवस्थाया अभावाद्, अन्यथा शाखावच्छेदेन कपिसंयोगप्रत्ययोऽपि दुरुपपाद: स्यात्, सम्पूर्णा परमाण्वाद्यवच्छिन्ना वा शाखाऽनवच्छेदिकेति ग्रहे शाखात्वावच्छेदेनावच्छेदकत्वग्रहासम्भवात्, प्रतिनियतावयवावच्छिन्नशाखात्वेन तदवच्छेदकत्वस्य च दुर्ग्रहत्वादित्यादिकमुपपादितं गोपालमतप्रमाथिन्यामनेकान्तव्यस्थायामस्माभिरिति तत एवावधार्यम् । स्वद्रव्यपरद्रव्यादेः सर्वत्र सदसत्त्वव्यवस्थापकत्वनियमभङ्गमाशङ्कते-ननु चेत्यादिना । षण्णामपि इति द्रव्यत्वमुद्देश्यतावच्छेदकमाह, द्रव्यत्वावच्छेदेन सत्त्वासत्त्वादिसप्तभङ्गीसाधने किं स्वद्रव्यं किं वा परम् ? तदवच्छिन्नभेदाप्रसिद्ध्या परत्वस्य तदभावे स्वत्वस्य दुर्वचत्वान्न किञ्चिदित्यर्थः । तत्रापि शुद्धं द्रव्यं स्वं सत्त्वावच्छेदकम्, अशुद्धं च परमसत्त्वावच्छेदकम्, अशुद्धशुद्धत्वे च भेदाभेदप्रधानव्यवहारनिश्चयनयसाक्षिकावखण्डोपाधिविशेषौ, प्रतिभासविशेषादपि तत्सिद्धेस्तत्तेदन्तादौ दर्शनादिति नानुपपत्तिरित्यभिप्रायवानाह-न, तेषामपीत्यादि । तथापि शुद्धद्रव्यत्वावच्छिन्नधर्मिताकसप्तभङ्गीस्थले का गतिः ? इत्याशङ्कते-शुद्धद्रव्यस्येत्यादि । तत्रापि स्वद्रव्यपरद्रव्यशब्दाभ्यां व्यापकत्वाव्यापकत्वोपलक्षणात्तदवच्छिन्नास्तित्वनास्तित्वादिघटितायाः सप्तभङ्गया नानुपपत्तिरित्याहसकलेत्यादि । उक्तप्रकारं शुद्धक्षेत्रकालयोरतिदिशति-एतेनेति । शुद्धभावस्तु शुद्धद्रव्येण

Loading...

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450