Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 371
________________ ३३७ प्रथमो भागः [परि०१-का. १४] परस्परमसङ्करप्रतिपत्तेरसत्त्वस्यापि सिद्धेः, जीवाजीवप्रभेदानां स्वस्वभावव्यवस्थितेरन्यथानुपपत्तेः । (भा०) न केवलं जीवाजीवप्रभेदाः सजातीयविजातीयव्यावृत्तिलक्षणाः, किन्तु बुद्धिक्षणेऽपि क्वचिद् ग्राह्यग्राहकयोः सितादिनिर्भासांशपरमाणुसंवित्तयोऽपि, परस्परपरिहारस्थितिलक्षणत्वादन्यथा स्थूलशबलावलोकनाभावात्तदेकांशवत् । सर्वथा परस्परमव्यावृत्तानां ग्राह्यग्राहकसितादिनिर्भासावयवपरमाणुसंवित्तीनामेकपरमाणुस्वरूपतापतेः । न चैकपरमाणुः स्थूलतया शबलतया वावलोकयितुं शक्यः, भ्रमप्रसङ्गात् । (भा०) तथा च सकलचेतनेतरक्षणपरिणामलवविशेषाः परस्परविविक्तात्मानः सिद्धाः, स्वस्वभावस्य स्वभावान्तरेण मिश्रणाभावात् । (भा० ) तदन्योन्याभावमात्रं जगत् । अन्यथा सर्वथैकत्वप्रसङ्गात् तत्रान्वयस्य विशेषापेक्षणादभावो वा । स्वतन्त्रस्य तस्य जातुचिदप्रतिभासनात् । (भा०) तदिष्टमसदेव कथञ्चित् । [मीमांसकः सर्वं वस्तु भावाभावात्मकं मन्यते किन्तु परस्परनिरपेक्षं मन्यते अतस्तदभिमतमपि दोषास्पदमेव] सर्वथा भावाभावोभयात्मकमेव जगदस्तु, तत्र भावस्याभावस्य च प्रमाणसिद्धत्वात् प्रतिक्षेप्तुमशक्यत्वादित्यपरः, सोऽपि न तत्त्ववित्, सुयुक्त्यतिलङ्घनात् । अष्टसहस्त्रीतात्पर्यविवरणम् ____ व्याप्यवृत्तिव्यावृत्तिस्वभावं दर्शयित्वाऽव्याप्यवृत्तिं तं दर्शयति-किन्त्विति । सितादीति सितादयो ये निर्भासा ज्ञानाकारास्तथांशपरमाणूनामवयवाणूनां संवित्तयस्ता अपि परस्परव्यावृत्तिलक्षणा इति व्याख्येयम् । परस्परविविक्तात्मान इति अध्याहृतस्य वस्तुनो विशेषणमिदम्, तत्र=जगति, अन्वयस्य सर्वथैकत्वस्य, विशेषापेक्षत्वात्=तत्वतो

Loading...

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450