Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 375
________________ प्रथमो भाग: [परि० १-का. १४] ३४१ स्फटिकस्य पीतेतरप्रतिभासित्ववत्' इति, तदसत्, प्रत्यक्षतरोपाधीनामपि शब्दात्मकत्वे भेदासिद्धेः, तदनात्मकत्वे शब्दाद्वैतव्याघातात्, तेषामवस्तुत्वे स्पष्टेतरप्रतिभासभेदनिबन्धनत्वविरोधात् । तत्प्रतिभासस्याप्यभेदे, स एव प्रत्यक्षतराविशेषप्रसङ्गः । (भा० ) तथानभिधेयत्वेऽपि सत्येतरयोरभेदः स्यात् । यत्सत्तत्सर्वमक्षणिकं, क्षणिके क्रमयोगपद्याभ्यामर्थक्रियाविरोधादित्यादेरिव वाक्यस्य यत्सत्तत् क्षणिकमेव, नित्ये क्रमाक्रमाभ्यामर्थक्रियानुपपत्तेरित्यादेरपि वाक्यस्यासत्यत्वप्रसङ्गाद्विपर्ययानुषङ्गाद्वा, सर्वथार्थासंस्पर्शितत्वाविशेषात्, कस्यचिदनुमानवाक्यस्य कथञ्चिदर्थसंस्पर्शित्वे सर्वथानभिधेयत्वविरोधात् । सोऽयं सौगतः, (भा०) स्वपक्षविपक्षयोस्तत्त्वातत्त्वप्रदर्शनाय यत्किञ्चित्प्रणयन् वस्तु सर्वथानभिधेयं प्रतिजानातीति किमप्येतन्महाद्भुतम् । सर्वथाभिधेयरहितेनानुमानवाक्येन सत्यत्वासत्यत्वप्रदर्शनस्य प्रणेतुमशक्तेः । साध्याभिधानात्पक्षोक्तिः पारम्पर्येण नाप्यलम् । शक्तस्य सूचकं हेतुवचोऽशक्तमपि स्वयम् ॥ [ ] इति वचनात् । स्वयं (भा०) तत्कृतां वस्तुसिद्धिमुपजीवति, न तद्वाच्यतां चेति स्वदृष्टिरागमात्रमनवस्थानुषङ्गात् । वस्तुनोऽनुमानवाक्यवाच्यतानुपजीवने तत्कृतायाः सिद्धरुपजीवनासम्भवात्, अनभिमतप्रतिवादिवचनादपि तत्सिद्धिप्रसङ्गात्, स्वाभिधेयरहितादपि स्ववचना अष्टसहस्त्रीतात्पर्यविवरणम् स्यान्मतमित्यादिना । एतद् दूषयति-तदसदित्यादिना, प्रत्यक्षेतरोपाधीनामित्यत्र प्रत्यक्षं चेतरच्चोपाधिश्चेति द्वन्द्वः कार्यः, तेन बहुवचनोपपत्तिरिति द्रष्टव्यम् । वक्तव्यैकान्तपक्षोक्तं दूषणमवक्तव्यकान्तपक्षेऽपि सममित्युपदर्शयति-तथानभिधेयत्वेऽपीत्यादिना । साध्याभिधानादित्यादि साध्याभिधानात्, पक्षोक्तिः साध्यविशिष्टधर्मिण उक्तिः, पारम्पर्येणापि

Loading...

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450