Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 376
________________ ३४२ अष्टसहस्त्रीतात्पर्यविवरणम् तत्त्वसिद्धिरुपजीव्यते, न पुनः परवचनादिति कथमप्यवस्थानासम्भवात् । मद्वचनं वस्तुदर्शनवंशप्रभवं, न पुनः परवचनमिति स्वदर्शनानुरागमात्रं, न तु परीक्षाप्रधानं, सर्वस्य वचसो विवक्षाविषयत्वाविशेषात् । [प्रत्येकं वस्तु कथञ्चिदेवावाच्यं न सर्वथा] ततो न सर्वथाभिधेयं वस्तुतत्त्वं नाप्यनभिधेयं, बाधकसद्भावात् । किं तर्हि ? कथञ्चिदवाच्यमेव तवेष्टं, कथञ्चित्सदेव, कथञ्चिदसदेव, कथञ्चिदुभयमेवेति । तथा चशब्दात्कथञ्चित्सदवाच्यमेव, सर्वथाप्यसतोऽनभिधेयत्वधर्माव्यवस्थितेः, कथञ्चिदसदवाच्यमेव, सर्वथापि सतोऽनभिलाप्यत्वस्वभावासम्भवात् तदभिलाप्यत्वस्यापि सद्भावात्, कथञ्चित्सदसदवाच्यमेव, स्वरूपपररूपाभ्यां सदसदात्मन एवावाच्यत्वधर्मप्रसिद्धरित्यपि भङ्गत्रयं समुच्चितमाचार्यैः, अव्यक्तव्योत्तराः शेषास्त्रयो भङ्गाः स्वहेतुत इत्यग्रे स्वयं समर्थनात् । इह तत्प्रतिज्ञातस्य सिद्धेरप्रतिज्ञातस्य समर्थनाघटनात् कस्यचित्प्रतिज्ञातस्य सामर्थ्याद् गम्यमानस्यापि प्रतिज्ञातत्वोपपत्तेः, इति साधीयसी सप्तभङ्गी प्रतिज्ञा, तथा नैगमादिनययोगात् ॥१४।। तत्र प्रथमद्वितीयभङ्गयोस्तावन्नययोगमुपदर्शयन्ति स्वामिनः - अष्टसहस्रीतात्पर्यविवरणम् नालं नानुमितिजननसमर्था, पक्षज्ञानमात्रस्य तदहेतुत्वात्, हेतुवचस्तु स्वयमनुमितिजननेऽशक्तमपि शक्तस्यानुमितिजननसमर्थस्य हेतोः सूचकम्, इत्थं च पारम्पर्येण हेतुवचनस्यानुमापकत्वमनुज्ञातम्, अत्र हि सूचकता ज्ञानजनकता, ज्ञानं च बाधाभावात् प्रमारूपमित्यनिच्छताऽपि शब्दस्य प्रमापकत्वं तन्निर्वाहाय वाचकत्वं च बौद्धनाश्रयणीयमित्युक्तं भवति । सूचकत्वं तु ज्ञानावच्छेदकार्थानुमापकत्वविधया स्वातन्त्र्येण वेत्यन्यदेतत् । अवाचकशब्दव्यावृत्त्यर्थं प्रामाण्यपरीक्षायां वाचकत्वस्यावश्यंभावाद्वक्त्रभिप्रायसम्भावनाजनकत्वमेव शब्दस्यार्थसूचकं सैव च बहुशो व्यवहारकरीत्याश्रयणे च प्रसिद्धानुमानकार्यस्यापि सम्भावनयैवोपपत्तेः प्रत्यक्षातिरिक्तप्रमाणमात्रसन्न्यासाच्चार्वाकमतप्रवेशो महापापवह: स्यादिति द्रष्टव्यम् ॥१४॥

Loading...

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450