Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 369
________________ प्रथमो भागः [परि० १-का. १४] ३३५ कार्यकृत्तदित्थं सर्वत्र सर्वदेति तर्कितं, ततस्तत्कार्यावबोधनादभिनिबुद्धं, तदेव च शब्दयोजनया विकल्पनिरूपणया वा परार्थं स्वार्थं वा श्रुतमित्यनुसन्धानप्रत्ययवदहमेक एव दृष्टावगृहीतेहितेत्याद्यनुसन्धानबुद्धिरपि न क्वचिदास्पदं बनीयात् । तथाविधवासनाप्रबोधादनुसन्धानावबोधप्रसिद्धिरिति चेत्, साऽनुसन्धानवासना यद्यनुसन्धीयमानदर्शनादिभ्यो भिन्ना तदा सन्तानान्तरे दर्शनावग्रहादिष्विव स्वसन्तानेऽपि नानुसन्धानबोधमुपजनयेत्, अविशेषात् । तदभिन्ना चेत्, तावद्धा भिद्येत, न हि भिन्नादभिन्नमभिन्नं नामेति स्वयमभिधानात् । तथा च तत्प्रबोधात्कथं दर्शनावग्रहादिष्वेकमनुसन्धानज्ञानमुत्पद्येत ? यदि पुनस्तेभ्यः कथञ्चिदभिन्ना वासनानुमन्यते तद्धेतुस्तदा, (भा०) अहमहमिकयात्मा विवर्ताननुभवन्ननादिनिधनः स्वलक्षणप्रत्यक्षः सर्वलोकानां क्वचिच्चित्रवित्तिक्षणे नीलादिविशेषनिर्भासवदात्मभूतान् परस्परतो विविक्ता-सहक्रमभाविनो गुणपर्यायानात्मसात्कुर्वन् सन्नेव सिद्धः, तस्यैव वासनेति नामान्तरकरणात् । (भा०) तदेकत्वाभावे नीलादिविशेषनियतदर्शननानासन्तानसंवेदनक्षणवच्चित्रसंवेदनं न स्यात् । क्रमवृत्तिसुखादीनामिव दर्शनावग्रहादीनामेकसन्तानिपतितत्वादनुसन्धानमनन अष्टसहस्त्रीतात्पर्यविवरणम् गन्तव्यम् । अभिनिबुद्धम् = अनुमितम्, शब्दयोजनया= परार्थशब्दप्रयोगेण, विकल्पनिरूपणया स्ववृत्तिशब्दवृत्तिजन्योपस्थित्या, वाकारो वक्तृश्रोतृस्थश्रुतानुसन्धानभेदाभिप्रायेण । इत्यनुसन्धानप्रत्ययभेदवदिति यथोक्तानुसन्धानविषय एकोऽर्थस्तथाऽहमेक एव द्रष्टेत्याद्यनुसन्धानविषय आत्मापि, अन्यथोपदर्शितप्रत्ययनिविषयत्वापत्तेरित्यर्थः । तावद्वा इति तावत्प्रकारैः । तदेकत्वाभावे चित्रवृत्तिक्षणेऽप्यनुभयमानैकत्वापलापे । नीलादीति नीलादिविशेषेषु नियमतो निश्चयतो दर्शनं स्वप्रकाशो येषां ते तथा, नानासंवेदनचित्तक्षणाः नीलादिमात्रविषयकनानाज्ञानानीति यावत्, तद्वत्ते ष्विव, चित्रसंवेदनं चित्रत्वज्ञानं नानारूपसमुदायज्ञाने न स्यात्, विषयितासम्बन्धेन स्वाश्रये तेन वृत्तित्वरूपसामानाधिकरण्येन नीलेतरविशिष्टनीलवत्त्वादिनैव ज्ञाने चित्रत्वव्यवहारादित्यर्थः । अनु

Loading...

Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450