Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 322
________________ २८८ अष्टसहस्त्रीतात्पर्यविवरणम् [विज्ञानाद्वैतवादेऽपि चतुर्धा सम्बन्धः सिद्ध्यति इति प्रतिपादयन्ति जैनाचार्याः] संवित्तदाकारयोर्द्रव्यादिप्रत्यासत्तिचतुष्टयस्यापि भावात्परस्परं पारतन्त्र्यसिद्धेः । सिद्धस्य संविदाकारस्य संवित्परतन्त्रतानिष्टौ संविदभावेऽपि भावप्रसङ्गात्, संविदो वा स्वाकारपरतन्त्रतानुपगमे निराकारसंविदनुषङ्गात्, तथोपगमेऽपि संविदो वेद्याकारविवेकपरतन्त्रतानभिमनने वेद्याकारात्मताप्रसङ्गात्, सर्वथा सम्बन्धाभावस्य च भावपरतन्त्रत्वानङ्गीकरणे स्वतन्त्रस्याभावरूपत्वविरोधात् कुतस्तद्व्यवस्था ? । तदयं कस्यचित्सिद्धस्यासिद्धस्य वा परतन्त्रतामुपलभ्य सर्वत्र सिद्धेऽसिद्धे वा का परतन्त्रतेति ब्रुवाणः कथं न परतन्त्रः ? । [कार्यकारणयोः परतन्त्रतानभ्युपगमे दोषानाहुराचार्याः] कस्यचिदसिद्धस्यापि कार्यात्मनः कारणपरतन्त्रतोपपत्तेरन्यथा कारणाभावेऽपि कार्योत्पत्तेर्निवारणायोगात् । ( भा० ) कुतश्चित्कस्यचिदनुत्पत्तौ शश्वत्सत्त्वप्रसङ्गात्, 'सदकारणवन्नित्यम्' इति वचनात् संवृत्या पारतन्त्र्योपगमेऽपि तद्दोषानतिवृत्तेः संवृतेर्मृषारूपत्वात् । तत्त्वतोऽपि क्वचित्पारतन्त्र्येष्टौ सिद्धस्तात्त्विकः सम्बन्ध:, इति न अष्टसहस्त्रीतात्पर्यविवरणम् भ्युपगम्यत्वे सिद्धमन्यत्रापि द्रव्यादिसम्बन्धेनेति भावः । सर्वथा सम्बन्धाभावस्य चेति तथा च परमाणूनां निरन्तरोत्पत्तिरेव द्रव्यादिप्रत्यासत्तिर्ज्ञानस्य चानीलाद्याकारव्यावृत्ततयोत्पत्तिरिति निरस्तम्, पारतन्त्र्यभिया सम्बन्धं निराकुर्वतोऽसम्बन्धाभावमाद्रियमाणस्याभावस्य भावपरतन्त्रतया तदनिवृत्तेर्वक्रकल्पनादोषस्य परमाधिक्यात् । तदयं कस्यचिदिति क्वचित्परतन्त्रतानुपलम्भे सर्वत्र परतन्त्रतानिषेधस्य कर्त्तुमशक्यत्वादभावज्ञाने प्रतियोगिज्ञानस्य हेतुत्वादिति भावः । परतन्त्रः = परवशः, कस्यचिदसिद्धस्यापीति तथा च यथा कार्यस्य कारणपरतन्त्रत्वं, तथा सर्वस्य वस्तुनः सम्बन्धमुखेन सम्बन्ध्यन्तरपरतन्त्रत्वमविरुद्धमिति भावः । ननु कार्ये न कारणपारतन्त्र्यं तस्य स्वरसत एवोत्पत्तिशीलत्वात्, किन्तु कार्यत्वव्यवहार इति सांवृतमेव तदिति आशङ्कायाम् आह - संवृत्येति । तद्दोषानतिवृतेः वस्तुतः कारणानपेक्षत्वे कार्यस्य नित्यं सत्त्वमसत्त्वं वेति प्रसङ्गस्य दुर्वारत्वादिति भावः । तत्त्वतोऽपीति एकत्र मृषारूपस्यान्यत्र सत्यत्वनियमादित्यर्थः । वस्तुतोऽवधितया नियतत्व

Loading...

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450