Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 291
________________ प्रथमो भाग: [ परि० १ - का० १० ] २५७ प्रागभावविनाशस्य कार्यरूपतोपगमात्, 'कार्योत्पादः क्षयो हेतो:' इति वक्ष्यमाणत्वात्। प्रागभावतत्प्रागभावादेस्तु पूर्वपूर्वपरिणामस्य सन्तत्यानादेर्विवक्षिताकार्यरूपत्वाभावात् । न च तत्रास्येतरेतराभावः परिकल्प्यते, येन तत्पक्षोपक्षिप्तदूषणावतारः स्यात् । नाप्येवं प्रागभावस्यानादित्वविरोधः, प्रागभावतत्प्रागाभावादेः प्रागभावसन्तानस्यानादित्वोपगमात् । न चात्र सन्तानिभ्यस्तत्त्वान्यत्वपक्षयोः सन्तानो दूषणार्हः, पूर्वपूर्वप्रागभावात्मकभावक्षणानामेवापरामृष्टभेदानां सन्तानत्वाभिप्रायात् । सन्तानिक्षणापेक्षया तु प्रागभावस्यानादित्वाभावेऽपि न दोष:, तथा ऋजुसूत्रनयस्येष्टत्वात् । तथास्मिन्पक्षे पूर्वपर्यायाः सर्वेऽप्यनादिसन्ततयो घटस्य प्रागभाव इति वचनेऽपि न प्रागनन्तरपर्यायनिवृत्ताविव तत्पूर्वपर्यायनिवृत्तावपि घटस्योत्पत्तिप्रसङ्गो, येन तस्यानादित्वं पूर्वपर्यायनिवृत्तिसन्ततेरप्यनादित्वादापाद्यते, घटात्पूर्वक्षणानामशेषाणामपि तत्प्रागभावरूपाणामभावे घटोत्पत्त्यभ्युपगमात् प्रागनन्तरक्षणानिवृत्तौ अष्टसहस्त्रीतात्पर्यविवरणम् तद्बहुत्वस्याग्रेऽपि सत्त्वादीदृशानन्तप्राक्तनपटयेत्पत्तिवारणाय कार्यत्वावच्छिन्ने प्रागभावत्वेन हेतुत्वस्यैकस्यैवोचितत्वात्, आकाशाद्युदासीनमादाय बहुत्वस्य हेतुतापत्तेश्चेति चेत्, न, ईश्वरीयोपादानप्रत्यक्षादेस्तत्कालावच्छिन्नतद्घटावच्छिन्नविशेष्यतया हेतुत्वेऽनुपपत्त्यभावात् । वस्तुतः तत्कालावच्छिन्नतत्तत्पटहेतुतत्तत्संयोगाभावकूटात्यन्ताभाव एक एव कालदेशनियामक इति नूतनः पन्था इति दिग् । अत्र तत्कालावच्छिन्नतद्देशस्वरूपायास्तथाभव्यताया एव तत्कार्यदेशकालनियामकत्वम्, न च विनिगमकाभावः, सामानाधिकरण्यप्रत्यासत्तेर्विनिगमकत्वादित्यस्मदीयाः । प्रागभावतत्प्रागभावादेस्त्विति घटस्य प्रागभावः कुशूलं तस्य कोशस्तस्य स्थासस्तस्यापि मृत्पिण्ड एवं परमाणौ विश्रान्ति:, तत्परम्परानाधारघटप्रध्वंसपरम्परानाधारकालत्वस्य घटव्याप्यत्वाच्च, न घटरहितकाले घटवत्त्वम्, घटप्रागभावध्वंसवत्त्वमेव घटवत्त्वमिति तु विसभागसन्तत्यनुगतत्वान्नाद्रियत इति ऋजुसूत्रोपजीवीव्यवहारानुसृतः पन्थाः । तत्र=पूर्वपूर्वपरिणामसन्ततौ, अस्य = प्रागभावस्य, दूषणावतारः = पूर्वोत्तरपर्यायाणां घटात्मकत्वप्रसङ्गरूपः । सन्तानत्वाभिप्रायादिति अगृहीतभेदपूर्वपूर्वक्षणैरेवैकत्वानादित्वादिव्यवहारोपपत्तेरित्यर्थः । ननु एवं सन्तानस्य सांवृतत्वात् सांवृतमेव प्रागभावैकत्वानादित्वादि स्याद् इत्यत्रेष्टापत्तिमाह-सन्तानिक्षणापेक्षया त्विति । पूर्वपूर्वक्षणानां घटप्रागभावत्वेऽपि यावत्तन्निवृत्तेर्घटोत्पत्तिव्याप्यत्वान्न दोष इत्याह- तथाऽस्मिन् पक्ष इत्यादि ।

Loading...

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450